________________
श्रीतपागणपति-गुणपद्धतिः
चक्रे । अथ श्रीविजयदेवसूरयोऽहम्मदाबादे प्रतिष्ठाद्वयं पत्तने प्रतिष्ठाचतुः ष्टयं, स्तम्भतीर्थे प्रतिष्ठात्रयं बहुद्रव्यव्ययपूर्वकं कृत्वा स्वजन्मभूमौ श्रीइलादुर्गे चतुर्मासीं चक्रुः । तदा तत्रत्यैः संघ लोकैरनेके महोत्सवाः कृताः । तन्माहात्म्यष्टो राजा श्रीकल्याणमल्लनामा [चिन्ता ] मणिपाठिमहाभट्टचट्टवेष्टितः प्रतिश्रयं प्राप्तस्तर्कवादमकारयत् । तदा तेषां सूरीणां पुण्योदयात्पार्श्ववर्तिभिर्वादिदर्प-5 सर्पगरुड़रत्नैः पण्डितपद्मसागरगणिगीतार्थशिरोरत्नैरेव सर्वेऽपि भट्टास्तथा निर्जिता यथा लज्जिताः सन्तोऽहो गुरूणां गुरुतेति स्तुवन्तो राजेन्द्रमुख्याः स्वाश्रयं प्रापुः । तदा तत्र महती प्रभावना जाता । ततो वृहनगरे वीरप्रतिष्ठां कृत्वा राजनगरे चतुर्मासीं स्थिताः । तन्नावसरे इला दुर्गे श्री ऋषभदेवविम्बं यवनैर्न्यङ्गितं ततस्तत्प्रमाणमेव नवीनं बिम्बं श्राद्धर्विधाप्य नटीपद्रे महत्य प्रतिष्ठायां 10 श्रीसूरिभिः प्रतिष्ठाप्य गिरिशिरः स्थचैत्यचैत्योद्धारपूर्वकं स्थापितं । ततोऽन्यदा श्रीमण्डपाचले श्रीअन्त्ररपातिशाहिपुत्रजिहांगर श्रीसलेमशाहिः श्रीसूरीन् स्तम्भतीर्थतः सबहुमानमाकार्य गुरूणां मूर्ति रूपस्फूर्ति च वीक्ष्य वचनागोचरं चमत्कारमाप्तवान् । ततः समये श्रीगुरुभिः समं धर्मगोष्ठीक्षणे विचित्रधर्मवा
1
त पृष्ट्वा साक्षाद् गुरुस्वरूपं निरुपमं दृष्ट्वा च स्वपक्षीयैः परैः प्राक् किंचिद् 15
व्युप्राहितोऽपि शाहिस्तदा तत्पुण्यप्रकर्षेण हर्षितः सन् श्रीहीरसूरीणां श्रीवियसेनसूरीणां च पट्ट े एत एव पट्टधराः सर्वाधिपत्यभाजो भवन्तु, नापर: कोऽपि कूपमण्डूकप्राय इत्यादि भूयः प्रशंसां सृजन् जिहांगीरीमहातपावि-. रुदं दत्तवान्, अनुज्ञापितवांश्च तपागच्छ श्रावकेन्द्रचन्द्रपालादीम् यदस्मदीयदक्षिणीयमहाबाद्यवादनपूर्वकं गुरुम् स्वाश्रयं प्रेषयन्तु यथा युष्मद्गुरून् 20 वयमपि गवाक्षस्था निरीक्ष्य हृष्टा भवामः । इत्यादिवचनोत्साहितैस्तै मान्यसंघैर्दाक्षिणात्यमालवीयसंचैश्व तथा महोत्सवाः कृता यथा तपागासमुखे पूर्णिमाऽवतीर्णा अन्येषां च गुरुद्विषां मुखे ऽमावास्येति । किंबहुना ? यथा पुरा कब्बरेण श्रीहीरसूरयस्ततोऽप्याधिक्येन श्रीविजयदेवसूरयः शाहिजिहांगीरेण सम्मानिता इति । अथ श्रीगुरुवो गुर्जरदेशान्तर्भूत्वा सौराष्ट्रदे- 25. सुन्दरे द्वीपमन्दिरे फरतीपातशाहिप्रद सव्याख्यानानुज्ञापूर्व चतुर्मास
राज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org