________________
६४
पट्टावली - समुचयः
च कृत्वा क्रमेण हलारदेशे श्रीनवानगरे चानेकलोकान बोधिदानेन सुखयन्तः श्रीशत्रुञ्जये यात्रां विधाय स्तम्भतीर्थे चतुर्मासकं च निर्माय साबलीस्थाने सोनीरत्नसीक्रियमाणामारिपटहप्रदाने तीव्रक्रियाकष्टानुष्ठानपूर्वकं सूरिमंत्रसत्कं मासत्रयध्यानं विधाया क्षयतृतीयायां सभामभ्येयुः । ततस्तत्रैव चतुर्मासीं प्रतिष्ठाद्वयीं च कृत्वा श्रीइलादुर्गे प्रतिष्ठात्रयं कृतवन्तः । ततः संघेन सार्द्धं 5 श्रीभारासयादितीर्थ यात्रां कुर्वाणाः पोसीनाख्यपुरे पुराणानां पंचप्रासादानां श्रद्धानामुपदेशद्वारेण बहुद्रव्यव्ययसाध्यमपि तदुद्धारं कारितवन्तः । क्रमेण चारासणे मूलनायकाः पुनः प्रतिष्ठाविषयीकृत्य स्थापिताः । कालान्तरेण च इलादुर्गे श्रीकल्याणमल्लनरेन्द्राग्रहादागत्य वत्रस्थ सा०सहजूगृहे महामहेन - १६८१ वर्षे वैशाखशुद्धषष्ठ्यां श्रीविजयसिंहसूरीन् स्वपदेऽस्थापयत् । 10
तन्महोत्सवात्तुष्टः कल्याणराजोऽपि रणमल्लचोकीनामके गिरिशृंगे श्रीगुरून् समाहूय धर्मगोष्ठीं विधाय तत्स्थानं नवीनचैत्यस्थापनाय गुरुपुरः प्राभृतीकृतवान् । अथ च तत्र चैत्यमद्यापि निष्पाद्यमानमस्ति । ततश्चतुर्मासान्ते मरुदेशसङ्घघनाग्रहात् श्रीगुरवोऽनूचानान्विता अनेकलोकपतिवृताः श्री अर्बुशचलतीर्थं नमस्कृत्य सा० तेजपालेन विधीयमानां महामहमनोहरां 15 श्रीसोरोहीमागत्य चतुर्मासीं तस्थुः । तत्र च श्रीजावलपुर प्रमुखतत्परिसरसंत लोकैर्जङ्गमं तीर्थमागतं मन्यमानैर्बहुतरद्रव्यव्ययपूर्वक्रमागत्य वन्दिताः । तत्रावसरे साद्डीसत्कलुम्पाकैश्चैत्याचद्यसद्भावविषयिणी महती जिनशासनाशातना कृता। ततस्तत्रत्यैर्निर्बलैः श्रावकैः सीरोह्य मागत्य श्रीगुरवो विज्ञप्ताः यद्युष्मादृशेषु गुरुषु सत्सु वयं वराकैर्लम्पाकैः पराभूताः स्मस्तेनास्मत्सा - 20 'हाय्यं विधीयताम् । इत्युक्तेः शीघ्रमेव गुरुप्रेषितैर्गीतार्थैरेव तत्र गत्वा तद्वेषधारिणो भास्करै का इव मूकतां प्रापिताः । ततो ऽप्युदयपुरे मेदपाटदेशाधीश'राणाश्रीकर्णसिंहपार्श्वे गत्वा छन्दः काव्यादिभिस्तं तोषयित्वा सकलराजलोकंपरिकलितायां पर्षदि लुम्पाकान् वादे विजित्य “तपाः सत्या लुङ्काश्चासत्या" इति श्रीराणाजीसत्कं सहीत्यक्षरद्वयीकुंतांङ्कितं स्फुरन्मानमानीय सादडीचतु- 25 पट्टे वाचयित्वा गुरूणां प्रसत्तेस्तपागच्छप्रौढिः प्रौढतमा निम्मिता । ततो
Jain Education International
:
For Private & Personal Use Only
www.jainelibrary.org