________________
तपागच्छ पट्टापली नमण्डलसत्कम् , श्रीगुरूए। पार्वे रक्षणाय पष्ठं देशपंचकसम्बन्धि साधारणं चेति । तेषां च तत्तद्देशेषु प्रेषणेनाऽमारिपटहोद्घोषणवारिणा सिक्ता सती पुराऽज्ञायमाननामाऽपि कृपावली सर्वत्रार्याऽनार्यकुलमण्डपेषु विस्तारवती बभूव ।
___ तथा बन्दिअनमोचनस्याप्यङ्गीकारपुरस्सरं श्रीसाहिना श्रीगुरूणां । पार्वादुत्थाय तदैवाऽनेकगव्यूतमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्ष स्वहस्तेन नानाजातीयानां देशान्तरीयजनप्राभृतीकृतानां पक्षिणां मोचनं चक्रे । तथा प्रभाते कारागारस्थबहुजनानां बन्धनभञ्जनमप्यकारि। एवमनेकशः श्रीमत्साहेर्मिलनेन श्रीगुरूणां धरित्रीमरुमण्डलादिषु श्रीजिनप्रासादोपाश्रयाणामुपद्रवनिवारणायानेकफुरमानविधापनादिना प्रवचनप्रभावनादिप्रभावो 10 यो लाभोऽभवत् स केन वर्णयितुं शक्यते ? ।
तदवसरे च संजातगुरुतरगुरुभक्तिरागेण मेडतीयसा०सदारंगेण मार्गणगणेभ्यो मूर्तिमद्गजदानद्विपशदऽश्वदानलक्षप्रासादविधानादिना, दिल्लीदेशे श्राद्धानां प्रतिगृहं सेरद्वयप्रमाणखएडलम्भनिकानिर्माणादिना च श्रीजिनशासनोन्नतिश्चक्रे । तथैका प्रतिष्ठा सा• थानसिंघकारिता। श्रपरा च सा० 15 दूजणमल्लकारिता श्रीफतेपुरनगरे नेकटङ्कलक्षव्ययादिना महामहोत्सवोपेता विहिता । किञ्च ।
प्रथमचतुर्मासकमागराख्यद्रने, द्वितीयं फतेपुरे, तृतीयमभिरामाबादे, चतुर्थं पुनरप्यागराख्ये चेति चतुर्मासीचतुष्टयं तत्र देशेकृत्वा गूर्जरदेशस्थश्रीविजयसेनप्रभृतिसंघस्याऽऽग्रहवशात् श्रीगुरुचरणा धरित्रीपवित्रीकरणप्रव- 20 णान्तःकरणाः श्रीशेषूजी-श्रीपादूजी-श्रोदानीबाराऽभिधपुत्रादिप्रवरपरिकराणां श्रीमत्साहिपुरन्दराणां पार्श्वे फुरमानादिकार्यकरणतत्परानुपाध्यायश्रीशांतिचंद्रगणिवरान् मुक्त्वा, मेडतादिमार्गे विहारं कुर्वाणा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे सम्मगताः । तत्रापि नवीनचतुर्मुखप्रासादे श्रीश्रादिनाथा. दिबिम्बनां श्रीअजितजिनप्रासादे श्रीश्रजितजिनादिबिंबानां 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org