________________
पट्टावली-समुषयः च क्रमेण प्रतिष्ठाद्वयं विधाय अर्बुदाचले यात्रार्थ प्रस्थिताः तत्र विधिना यात्रा विधाय याबद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायश्रीसुलतानजीकेन सीरोहीदेशे पुरा कराऽतिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारणं च करिष्यामीत्यादिविज्ञप्तिं स्वप्रधानपुरुषमुखेन विधाय श्रीगुरवः सीरोयां चतुर्मासीकरणायाऽत्याग्रहात समाकारिताः। 5 पश्चात् तद्राजोपरोधेन, तद्देशीयलोकानुकम्पयाच तत्रचतुर्मासी विधायक्रमेण रोहसरोतरामार्गे विहारं कुर्वन्तः श्रीपत्तननगरं पावितवन्तः । अथ पुरा श्री सूरिराजैः श्रीसाहिहृदयाऽऽलवालरोपिता कृपालतोपाध्यायश्रीशान्तिचन्द्रगाणिमिः स्वोपज्ञकृपारसकोशाख्यशास्त्रश्रावणजलेन सिक्ता सती वृद्धिमती बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपर्युपणापर्व- 10 सत्कानि द्वादशदिनानि सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः नवरोजसत्को मासः सर्वे ईदीवासराः, सर्वे मिहरवासराः, सोफीप्रानकवासराश्चेति पाएमासिकामारिसत्कं फुरमानं जीजीअाभिधानकरमोचनसत्कानि फुरमानानि च श्रीमत्साहिपाात्समानीय धरित्रीदेशे श्रीगुरुणां प्राभृतीकृतानीति । एतच्च सर्वजनप्रतीमेव । तत्र नव- 15 रोजादिवासराणां व्यक्तिस्त फुरमानतोऽवसेया। किञ्च । अस्मिन् दिल्ली देशविहारे श्रीमद्गुरूणां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्चानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशन जीवहिसनादिरतिं परित्यज्य सद्धर्म कर्मासक्तमतयः, तथा केचन प्रवचनप्रत्यनीका अपि निर्भरभक्तिरतयः अन्य पक्षीया अपि कक्षीकृतसद् 20 भूतोद्भूतगुणततयश्वासन् । इत्याद्यनेकेऽवदाताः षड्दर्शनप्रतीता एव ।
तथा श्रीपत्तननगरे चतुर्मासककरणादनु विक्रमतः षट्चत्वारिशदधिकषोडषशत१६४६वर्षे स्तम्भतीर्थे सो० तेजपालकारिता सहस्रशो रुप्यकव्ययादिनाऽतीवश्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नतिं वन्वानाः श्रीसरिराजो विजयन्ते ॥१॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org