SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पट्टावली-समुषयः ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोक्तम् । यत् पुत्रकलनधनखजन देहादिषु निरीहेभ्यः श्रीमद्भ्यो हिरण्यादिदानं न युक्तिमत् । अतो यदस्मदीयमन्दिरे : पुरातनं जैनसिद्वान्तादिपुस्तकं समस्ति, तालात्वाऽस्माकमनुग्रहो विधेयः। पश्चात् पुनःपुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्ठी विधाय श्रीमत्साहिना । समनुज्ञाताः श्रीगुरुवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता। तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणान्तरं सुरीपुरे श्रीनेमिजिनयात्राकृते समागतैः श्रीगुरुभिः पुरातनयोः श्रीऋषभदेव-श्रीनेमिनाथसम्बनिधन्योर्महत्योः प्रतिमयोस्तदानीमेव निर्मितश्रीनेमिजिनपादुकायाश्च प्रतिष्ठा-10 कृता । तदनु, ॥ आगराख्यनगरे सामानसिंहकल्याणमल्लकारितश्रीचिन्तामविपार्श्वनाथादिबिम्बाना प्रतिष्ठा शतशः सुवर्णटक्कव्ययादिना महामहेन निर्मिता । तत्तीर्थं च प्रथितप्रभावं सञ्जातमस्ति । ततः श्रीगुरवः पुनरपि फतेपुरनगरे समागत्य श्रीसाहिना साकं भिलिताः । तदवसरे च प्रहरं 'यावद्धर्मप्रवृत्तिकरणानन्तरं श्रीसाहिरवदत् यत् 15 श्रीमन्तो मया दर्शनोत्कण्ठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते । तेनाऽस्मत्सकाशात् श्रीमद्भिः सचित्तं याचनीयं येन वयं कृतार्था भवामः। तत् सम्यग्विचार्य श्रीगुरुभिस्तदीयाखिलदेशेषु पर्युषणापर्वसत्काऽष्टाहिकायाममारिप्रवर्त्तनं बन्दिजनमोचनं चायाचि, ततो निर्लोभताशान्तताद्यतिशयितिगुणगरगातिचमत्कृतचेतसा श्रीसाहिना अस्मदीयान्यपि चत्वारि 20 दिनानि समधिकानि भवन्त्विति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुलदशमीतः प्रारभ्य भाद्रपदशुक्लषष्ठी यावदमारिप्रवर्त्तनाय द्वादशदिनामारिसत्कानि काञ्चनरचनाञ्चितानि स्वनामङ्कितानि पट् फुरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । तेषां व्यक्ति-प्रथमं गूर्नरदेशीयं; द्वितीयं मालवदेशसत्कं, तृतीयं अजमेरदेशीय, चतुर्थ दिल्लीफतेपुरदेशसम्बन्धि, पञ्चमं लाहुरमुलता -5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy