________________
तपागच्छ-पट्टावली
कि । येषामशेषसंविग्नसूरिशेखराणामुपदेशात् सहस्रशो गजानां लक्षशो वाजिनां गूर्जर - मालव-विहार-अयोध्या-प्रयाग-फतेहपुर-दिल्लीलाहुर-मुलतान - क्यात्रिल- अजमेर - बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूत्रानां चाऽधीश्वरो महाराजाधिराज शिरः शेखरः पातिसाहिश्रीअकब्बरनरपतिः स्वकीयाऽखिलदेशेषु षाण्मासिकाऽमारिप्रवर्त्तनं, 5 जीजा ऽभिधानकरमोचनं च विधाय सकललोकेषु जामत्प्रभावभवनं श्रीमजिनशासनं जनितवान् । तद्वयतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम्
एकदा कदाचित् प्रधानपुरुषाणां मुखवार्त्तया श्रीमद्गुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगरणश्रवणतश्चमत्कृतचेतसा 10 पातिसाहिश्री अकबरेण स्वनामाङ्कितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबन्दिरात् दिल्लीदेशे श्रागराख्यनगरासन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेकभव्यजन क्षेत्रेषु बोधिबीजं वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वारणा: विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३६ ज्येष्टबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीयप्रधानशिरोमणिशेषश्री 15 अबलफजलाख्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्यनेकमुनिनिकरपरि
करिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं स्वागतादि पृष्ट्वा स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्वरूपं, धर्मस्वरूपं चकीदृशं कथं च परमेश्वरः प्राप्यत इत्यादि धर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिरा ऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतस्व- 20 रूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रङ्गतोऽजमेरनगरं यावदध्वनि प्रतिक्रोशं कूपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः ।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org