________________
७२
पट्टावली - समुच्चयः
षण्णवत्य ऽधिके १५६६ कार्तिक बहुलद्वितीयायां २ पत्तननगरे दीक्षा, सप्ताऽधिके षोडषशतवर्षे १६०७ नारदपुर्या श्रीऋषभदेवप्रासादे पण्डितपदम् । श्रष्टाधिके १६०८ माघशुक्ल पञ्चमीदिने नारदपुर्या श्रीवरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् ।
तथा येषां सौभाग्यवैराग्यनिःस्पृहतादिगुणश्रेणेरेकमपि गुणं वचो - 6 गोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्य श्रद्धालुभिः टङ्ककानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटङ्करूप्यना कमोचनं पुरतश्च मुक्ताफलादिभिः स्वस्तिकरचनं प्रायस्तदुपरि च रौप्यकनायकमोचनं चेत्यादि संप्रत्यऽपि प्रत्यक्षसिद्धम् ।
यैश्च सीरोह्यां श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्या- 10 मनेकानि जिनविम्बानि प्रतिष्ठितानि । तथा स्तम्भतीर्थाऽहम्मदाबादपतन नगरादौ अनेकटङ्कल क्षव्ययप्रकृष्टाभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिम्बानि प्रतिष्ठितानि । येषां च विहारादौ युगप्रधानसमानाऽतिशयाः प्रत्यक्षसिद्धा
1
एव ।
तथाऽहम्मदावादनगरे लुङ्कामताऽधिपतिः ऋषिमेघजीनामा स्वकी- 15 यमताऽऽधिपत्यं “ दुर्गतिहेतु" रिति मत्वा रज इत्र परित्यज्य पञ्चविंशति२५मुनिभिः सह सकलराजाधिराजपातिसाहि श्री कब्बरराजाज्ञापूर्वकं तदीयाssतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोजसेवापरायणो जातः । एतादृशं च न कस्याप्याचार्यस्य श्रुतपूर्वम् । x
* कुंअरजी ऋषिशिष्येण मेघजी ऋषिणा त्रिंशतः मुनिभिः साकमकबरपातिसाहिदत्ताऽऽगरावास्तन्यरामशाह सूनुस्थानसिंहा ऽऽनीततूर्यनिनादपुरस्सरं दीक्षा जगृहे । - इति हीरसौभाग्यकाव्ये ॥
सप्तविंशतिशिष्टयैर्जगृहे ।
इति विजयप्रशस्तिकान्यवृत्तौ ॥ तस्य वि० सं० १६२६ वर्षे श्रहमदावादे श्रीविजयसेनसूरिहस्तेन दीक्षा, वि०. सं० १६५६ वर्षे वै० शु० ४ सोमदिने स्तंभतीर्थे श्राद्धमालदेवकृत विजय देवसूरिपदमहोत्सवे उपाध्याय पदं ॥ तद्वितीयवर्षे एव शंखेश्वरतीर्थे लुंपाकमतत्यागिश्रीनयविजयस्यापि उपाध्यायपदम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org