________________
तपागच्छ-पट्टावली व्याख्या-५७-सिरिविजयत्ति, श्रीआनन्दविमलसूरिपट्ट सप्तपंचाशतमः श्रीविजयदानसूरिः ॥ येन भगवता स्तंभतीर्था-ऽहम्मदावाद-पत्तन-महीशानक-गन्धारबंदिरादिषु महामहोत्सवपुरस्सरमनेकजिनबिबशतानि प्रतिष्ठितानि ।।
यदुपदेशमवाप्य सूरत्राणमहिमूदमान्येन मंत्रिगलराजाऽपरनामकम-5 लिकश्रीनगदलेनाऽश्रुतपूर्वी पाएमासी शत्रुजयमुक्तिं कारयित्वा सर्वत्र कुंकुमपत्रिकाप्रेषणपुरस्सरसम्मीलिताऽनेकदेश-नगर-प्रामादिसंघसमेतेन श्रीशचुंजययात्रा, मुक्ताफलादिना श्रीशत्रुजयवर्धापनं श्रीभरतचक्रिवचक्रे ॥
__ तथा यदुपदेशपरायणगाधारीयसारामजी अहम्मावादसत्क सं०कू. अरजीप्रभृतिभिः शत्रुजये चतुर्मुखाऽष्टापदादिप्रासादा देवकुलिकाश्चका- 10 रिताः । उज्जयन्तगिरौ जीएर्णप्रासादोद्धारश्च ॥
तथा सूर्यस्येव यस्योदये तारका इवोत्कटवादिनोऽदृष्यतां प्रापुः ॥
यो भगवान् सिद्धांतपारगामी अखण्डितप्रतापाज्ञोऽप्रमत्तया रुपश्रिया च श्रीगौतमप्रतिमो गूर्जर-मालव-मरुस्थली-कुंकुणादिदेशेष्वशेषेष्वप्रतिबद्धविहारी षष्ठाऽष्टमादितपः कुर्वन्नपि यावज्जीवं घृताऽतिरिक्तविकृतिपंचकपरि-15 हारी मादृषामपि शिष्याणां श्रुतादिदाने वैश्रमणाऽनुकारी अनेकवारैकादशागपुस्तकशुद्धिकारी । किंबहुना ! तीर्थकरइव हितोपदेशादिना परोपकारी सर्वजनप्रतीतः ॥
तस्य वि० त्रिपंचाशदधिके पंचदशशत१५५३वर्षे जामलास्थाने जन्म, द्वाषष्ठ्यधिके १५६२ दीक्षा, सप्ताशीत्यधिके १५८७ सूरिपर्द, द्वाविंशत्य- 20 धिकषोडशशत१६२२वर्षे वटपल्लयामनशनादिना सम्यगाराधनपुरस्सरं स्वर्गः ॥
५८--अडवण्णेत्ति, श्रीविजयदानसूरिपट्टेष्टपञ्चाशत्तमाः श्रीहीर. विजयसूरयः ॥किंविशिष्टाः१ संप्रति तपागच्छे श्रादित्यसदृशास्तदुद्योतकत्वात् । तेषां विक्रमतः व्यशीत्यधिके पश्चदशशतवर्षे १५८३ मार्गशीर्षशुक्र नवमीदिने प्रहादनपुरवास्तव्यऊकेशज्ञातीयसा०कुराभार्यानाथीगृहे जन्म, 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org