________________
पट्टावली- समुच्चयः
“यो वादेजयी स नगरादौ स्थास्यति नान्य" इति सुराष्ट्राधिपतिनामांकित लेखमादाय सुराष्ट्रे साधुविहारनिमित्तं यदीयश्रावकः सुरत्राणदत्तपर्यस्तिकावाहनः पातसाहिप्रदत्त "मलिक श्रीनगदल" विरुदः सा० तूणसिंहाख्यः श्रीगुरूणां विज्ञप्तिं कृत्वा संप्रतिभूपतिरिव पंन्यासजगर्षिप्रमुखसाधुविहारं कारितवान् ॥
190
तथा जेसलमेर्वादिमरुभूमौ जलदौर्लभ्यादुष्करोयमितिधिया श्रीसोमप्रभसूरिभिर्ये विहारः प्रतिषिध्ध आसीत् सोपि व्यवहारः कुमतव्याप्तिभिया तत्रत्यजनानुकंपया च भूयोलाभहेतवे पुनरप्यनुज्ञातः । तत्रापि प्रथमं लघुवा अपि शीलेन श्रीस्थूलभद्रकल्पो वैराग्यनिधिर्निःस्पृहावधिर्यविज्जिवं जघन्यतोऽपि षष्ठतपोभिग्रही पारण केप्याचाम्लादितपोविधायी महोपाध्याय - 10 श्रीविद्यासागरगणिर्विहृतवान् । तेन च जेसलमेर्वादौ खरतरान् मेवातदेशे च बीजामतीप्रभृतीन् मोरव्यादौ (मोख्यादौ) लुङ्कादीन् प्रतिबोध्य सम्यक्त्ववीजमुतं सदनेकधावृद्धिमुपागतमद्याऽपि प्रतीतं ॥
तथा पार्श्व चंद्रव्युद्माहिते वीरमग्रामे पार्श्व चंद्रमेव वादे निरुत्तरीकृत्य भूयान् जनो जैनधर्मं प्रापितः । एवं मालवकेप्युज्जयिनीप्रभृतिषु ॥ किंबहुना ! 15 संविद्मत्वादिगुणैर्यत्कीर्तिपताका पुनरद्यापि सज्जनवचोवातेनेतस्तत उद्भूयमाना प्रवचनप्रासादशिखरे समुल्लसति ॥
क्रियोद्धारकरणानन्तरं च श्रीआणंद विमलसूरयश्चतुर्दश १४ वर्षाणि जघन्यतोपि नियततपोविशेषं विहाय षष्ठतपोभिप्रहिणः चतुर्थषष्ठाभ्यां विंशतिस्थान काराधनाद्यनेकविकृष्टतपःकारिणश्च वि० षण्णवत्यधिकपंचदशशत 20 १५६६ वर्षे चैत्रसित सप्तम्यामा७ऽऽजन्मातिचाराऽऽद्यालांच्याऽनशनं विधाय च नवभिरुपवासैरहम्मदावादनगरं स्वर्गं विभूषयामासुः ॥ १८ ॥
|| सिरिविजयदाणसूरी, पट्टे सगवण्णए अ ५७ अडवण्णे ।। सिरिहीरविजयसूरी, ५८ संपइ तवगणदिदिसमा ॥१६॥ ५७ - तत्पट्टे श्रीविजयदानसूरिः ।। ५८- तत्पट्टे श्रीहीरविजयसूरिः || 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org