________________
10
पट्टावली-समुच्चयः चारित्रं मंत्रपुस्तिकां वेत्युक्त्वा न मंत्रपुस्तिकां गृहीतवान् । श्रपरस्य योन्यस्याऽभावात् सा जलसात्कृता ।
येन श्री सोमप्रभसूरिणा जलकुंकुरणदेशे ऽष्कायविराधनाभयात मरौ शुद्धजलदौर्लभ्यात् साधूनां विहारः प्रतिपिध्धः ॥
तथा भीमपल्या कार्तिके द्वये प्रथम एव कार्तिके एकादशाऽन्यपक्षीयाऽऽचार्याऽविज्ञातं भाविनं भंगं विज्ञाय चतुर्मासी प्रतिक्रम्य विहृतवंतः पश्चासद्गोऽभवत् । तेचाऽऽचार्या प्रकृतगुरुवचना भंगमध्ये ऽपतन्निति ॥ .. तत्कृता प्रथास्तु सविस्तरयतिजीतकल्पसूत्रं, यत्राखिलेत्यादि २८ स्तुतयः, जिनैन येनेतिस्तुतयः, श्रीमद्धर्मेत्यादयश्च ॥
___तच्छिष्याः, श्रीविमिलप्रभसूरि १ श्रीपरमानंदसूरि २ श्रीपद्मतिलकसूरि ३ श्रोसोमतिलकसूरय ४ इति ॥
यस्मिन् वर्षे श्रीधर्मघोषसूरयो दिवंगताः तस्मिन्नेव वर्षे १३५७ श्रीसोमप्रभसूरिभिः श्रीविमलप्रभसूरीणां पदं ददे। ते च स्तोकं जीविता ॥ तत वायुत्दिा त्रिसप्तत्यधिकत्रयोदशशत १३७३वर्षे श्रीपरमानंदसूरि-श्रीसोमतिलकसूरीणां सूरिपदंदत्वा,मासन्येण वि०त्रिसप्तत्यधिकत्रयोदशशत १३७३ 15 वर्षे श्रीसोमप्रभसूरयो ४ दिवं गताः ॥ तदानी च स्तंभतीर्थे तेषामाऽऽलिगवसतिस्थवेन तत्रत्याः प्रत्यासन्ना लोका आकाशोद्योताद्यालोक्योक्तवंतो यदेतेषां गुरूणां स्वर्गाद्विमानमागादिति ।। अन्यत्र च कापिपुरे तद्दिने यात्रावतीर्णदेवतयेत्युक्तं " यत्तपाचार्या सौधर्मेन्द्रसामानिकत्वेन समुत्पन्ना" इतिप्रवादोऽधुना मया मेरौ देवगुवात् श्रुत इति ॥
20 श्रीपरमानन्दसूरिरपि वर्षचतुष्टयं जीवितः ॥छ॥
४८--अडचत्तोत्ति, श्रीसोमप्रभसूरिपट्टेऽष्टचत्वारिंशत्तमः श्रीसोम तिलकसरिः । तस्य वि० पंचपंचाषदधिके त्रयोदशशत१३५५वर्षे माघे जन्म, एकोनसप्तत्यधिके १३६६ दीक्षा, त्रिसप्तत्यधिके १३७३ सूरिपदं, चतुर्विंशत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org