________________
तपागच्छ-पट्टावली - उज्जयिन्यां च योगिभयात् साध्वस्थिते गुरय आगताः योगिना साधवः प्रोक्ताः अगागतैः स्थिरैः स्थेयं ? साधुभिरुक्तं स्थिताःस्मः किं करिष्यसि ? तेन साधूनां दन्ता दर्शिताः, साधुभिस्तु कफोणिर्दर्शिता । साधुभिर्गत्वा गुरूणां विज्ञप्तं ॥ तेन शालायामुन्दरवृन्दं विकुर्वितं । साधवो भीता गुरुभिर्घटमुखं वर णाऽऽछाद्य तथा जप्तं यथा राहिं कुर्वन् स योगी आगत्य पादयोलग्नः ॥ 5
क्वचनपुरे निश्यभिमंत्रितद्वारदानं, एकदा अनभिमंत्रितद्वारदाने शाकिनीभिः पट्टिरुत्पाटितास्तंभितास्ता वाग्दाने च मुक्ताः ॥
यरेकदा सर्पदंशे रात्रौ विषणांतरांतरामू मुपगतैरुपायविधुरं संघं प्रत्यूचे । प्राचीनप्रतोल्यां कस्यचित्पुंसो मस्तके काष्टभारिकामध्ये विषापहारिणी लता समेष्यति,साच घृष्य दंशे देया इत्येवं प्रोक्ते संघेन च तथा विहिते 10 तया प्रगुणीभूय ततःप्रभृति यावज्जीवं षडपि विकृतमस्त्यक्ता आहारस्तु तेषां सदा युगंधर्या एव ॥
तत्कृता ग्रंथास्त्वेवं-संघाचारभाष्यवृत्तिः, सुअधम्नेतिस्तवः, कायस्थिात-भवस्थितिस्तवौ, चतुर्विशतिजिनस्तवाः, चतुर्विंशतिः, प्रस्ताशर्मेत्यादिस्तोत्रं, देवेंद्र्रनिशं० इति श्लेषस्तोत्रं, यूयं यूवां त्वमिति श्लेषस्तुतयः, 15 जय वृषभेत्यादिस्तुत्याद्याः॥ . .
तत्र जय वृषभेत्यादिस्तुतिकरणव्यतिकरस्त्वेवं-एकेन मंत्रिणाऽष्टयमकं काव्यमुक्त्वा प्रोचे, इदृगकाव्यमधुना केनाऽपि कतुन शक्यं । गुरुभिरुचेऽनस्तिर्नास्ति । तेनोक्तं तं कविं दर्शयत । तैर्रुक्तं ज्ञास्यते ॥ ततो जयवृषभस्तुतयो अष्टयमका एकया निशा निष्पाद्य भित्तिलिखितादर्शिताः । स-च चमत्कृतः 20 प्रतिबोधितश्च॥ ते च वि० सप्तपंचाशदधिकत्रयोदशशत१३५७वर्षे दिवंगताः॥
४७–सोमप्पहत्ति, श्रीधर्मघोषसूरिपट्टे सप्तचत्वारिंशत्तमः श्रीसोमः प्रभसूरिः॥ नमिऊण भणइ एवमित्याद्याराधनासूत्रकृत्। तस्य च वि० दशाधिकत्रयोदशशत१३१०वर्षे जन्म, एकविंशत्यधिके १३२१व्रतं, द्वात्रिंशदधिके १३३२ सरिपदं,कण्ठगतैकादशांगसूत्रार्थो गुरुभिर्दीयमानायां मंत्रपुस्तिकायां यच्छत 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org