________________
पष्टावली-समुच्चयः ४६-छायालीसोत्ति, श्रीदेवेंद्रसूरिपट्टे षट्चत्वारिंशत्तमः श्रीधर्मघोषसूरिः येन मंडपाचले सा० पृथ्वीधरः पंचमत्रते लक्षप्रमाणं परिग्रहं नियमयन् ।। ज्ञानातिशयात्तद्भगमवगम्य प्रतिषेधितः । स च मंडपाचलाधिपस्य सर्वलोकाभिमतं प्राधान्यं प्राप्तः, ततो धनेन धनदोपमो जातः ॥ पश्चात्तेन चतुरशीति८४र्जिन प्रासादाः सप्त च ज्ञानकोशाः कारिताः। श्रीशत्रुजये च एकविंश-5 तिघटीप्रमाणसुवर्णव्ययेन रैमयः श्रीऋषभदेवप्रासादः कारितः । केचिच्च तत्र षट्पंचाशत्सुवर्णधटीव्ययेनेंद्रमालायां (लां यो) परिहितवानिति वदंति ॥
तथा धरित्र्यां केनचित्साधर्मिकेण ब्रह्मचारिवेषदानावसरे महर्षिकत्वात पृथ्वीधरस्यापि तद्वषः प्राभृतीकृतः स च तमेव वेषमादाय ततःप्रभृति द्वात्रिंशदीयोऽपि ३२ ब्रह्मचार्यभूत् ।।
10 तस्य च पुत्र सा० झांझणनाम्ना एक एवासीत् । येन श्रीश@जयोजयंतगिर्योः शिखरे द्वादश१२योजनप्रमाणः सुवर्णरूप्यमय एक एव ध्वजः समरोपितः ॥ कपूरकृतेराजासारंगदेवः, करयोजनं कारितः ॥
येन च मंडपाऽचले जीर्णटंकानां द्विसप्तत्या क्वचित् षट्त्रिंशता सहबैर्गुरूणां प्रवेशोत्सवश्चक्रे ।।
15 देवपत्तने च शिष्याभ्यर्थनया मंत्रमयस्तुतिविधानतो येषांरत्नाकरस्तरंगै रत्नढौकनं चकार । तथा तत्रैव ये स्वध्यानप्रभावात्प्रत्यक्षीभूतनवीनोत्पन्न कपर्दियक्षेण वनस्वामिमहात्म्याच्छ@जयान्निष्काशितं जीर्णकपर्दिराजं मिध्यात्वमुत्सर्ययंत प्रतिबोध्य श्रीजैनबिबाधिष्ठायकं व्यधुरिति ॥ एकदा काभिश्चिद् दुष्टस्त्रीभिः साधुनां विहारिता कार्मणोपेता बटका भूपीठे यैस्त्याजिता: 20 संतः प्रभाते पाषाणा अभवन् । तदनु चाभिमंत्र्याऽर्पितपट्टकासनास्ताः स्तंभिवाःसत्यः कृपया मुक्ता इति ॥ तथा विद्यापुरे पक्षांतरीय तथाविधस्त्रीभिर्गुरूणां व्याख्यानरसे मात्सर्यात् स्वरभंगायकएठे केशगुच्छके कृते यैर्विज्ञातस्वरूपास्ता प्राग्वत्स्तंभिताः संत्योऽतःपरं भवद्गणे न वयमुपद्रोप्याम इति वाग्दानपुरःसरं संचाग्रहान्मुक्का इति ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org