SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तपागच्छ - पट्टावली ५६ प्रमाणानि पूगी क तानि चायति । प्रत्यहं पंचशतीवीसल प्रियाणां भोगः ॥ एवं व्यतिकरे सति श्रीसंघेन विज्ञप्ता गुरवः यदत्र गणाधिपतिस्थापनेन पूर्यतामस्मन्मनोरथः । गुरुभिस्तु तथाविधमौचित्यं विचार्य प्रल्हादनविहारे वि० त्रयोविंशत्यधिके त्रयोदशशते १३२३ वर्षे, क्वचिश्चतुरधिके १३०४ श्रीविद्यानंद . सूरिनाम्ना वीरधवलस्य सूरिपददानं । तदनुजस्य च भीमसिंहस्य धर्मकीर्ति- 6 नाम्नोपाध्याय पदमपि तदानीमेव संभाव्यते ॥ सूरिपददानावसरे सौवर, कपिशीर्षके प्रल्हादनविहारे मंडपात कुंकुमवृष्टिः ॥ सर्वोपि जनो महाविस्मयं प्राप्तः । श्राद्धैश्च महानुत्सवश्चके ॥ तैश्च श्रीविद्यानंदसूरिभिर्विद्यानंदाभिधं व्याकरणं कृतं ॥ यदुक्तम्- विद्यानंदाभिधं येन कृतं व्याकरणं नवम् ॥ भाति सर्वोत्तमं स्वल्प - सूत्रं बह्वर्थसंग्रहं ॥१॥ पश्चात् श्रीविद्यानंदसूरीन् धरित्र्यामाऽऽज्ञाप्य, पुनरपि श्रीगुरवो मालव के विहृतवंतः । तत्कृताश्च ग्रंथास्त्वेते -- २ - श्राद्धदिनकृत्यसूत्र - वृत्ती, २ – नव्यकर्मग्रंथपंचकसूत्र वृत्ती, २-सिध्यपंचाशिकासूत्र-वृत्ती, १ - धर्मरत्नवृत्तिः, २ - ( १ ) सुदर्शनचरित्रं, 15 ३- त्रीणि भाष्यानि, “ सिरिउसहवध्धमाण " प्रभृतिस्तवादयश्च । केचितु श्रावकदिन कृत्य सूत्रमित्याहुः ॥ विक्रमात् सप्तविंशत्यधिकत्रयोदशशत १३३७वर्षे मालवक एव देवेंद्रसूरयः स्वर्गं जग्मुः ॥ दैवयोगात् विद्यापुरे श्रीविद्यानंदसूरयोऽपि त्रयोदशदिनांतरिताः स्वर्गभाजः । अतः षड्भिर्मासैः सगोत्रिसूरिया श्रीविद्यानंदसूरिबांधवानां 20 श्रीधर्मकीर्त्यपाध्यायानां श्रीधर्मघोषसूरिरितिनाम्ना सूरिपदं दत्तं ॥ श्रीगुरुभ्यो विजयचंद्रसूरिपृथग्भवने कं गुरुं सेवेऽहमिति संशयानस्य सौवर्णिकसंग्रामपूर्वजस्य निशि स्वप्ने देवतया श्रीदेवेंद्रसूरीणामन्वयो भन्यो भविष्यतीति तमेव सेवस्वेति ज्ञापितं । श्रीगुरुणां स्वर्गगमनं श्रुत्वा संघाधिपतिना भीमेन द्वादशवर्षाणि 25 धान्यं त्यक्तं ॥ छ ॥ Jain Education International 10 For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy