________________
सोमसौभाग्य-पट्टावली विद्यापुरे क्षुद्रविनिद्रविद्याविदः सदःसंश्रितचारुपट्टाः । श्राद्धीः प्रदुष्टा हृदि शाकिनीः श्रागस्तंभयद्यश्चतुरश्चतस्रः । ४६।। यः पूर्जनाभ्यर्थनया नयानुसारी च ताः स्तंभनतो मुमोच । अदर्शयद्यत्य च रत्नमेकं रत्नाकरः स्वं तटसंश्रितस्य ।।४७।। विनिर्मिता येन च भव्यनव्यग्रंथा अनेके सरसार्थसार्थाः । प्रदीप्रदीपा इव तत्वमार्गमद्यापि हृद्याः किल दर्शयन्ति ॥४॥ गिरीशगिर्युज्वलतोत्थगर्वखर्वीकृतौ पेशलकौशलाढ्याः । सदावदाताः प्रवरावदाता वक्तुं न शक्याः कविभिर्यदीयाः ॥४६॥ तस्य क्षमाभृत्प्रणतस्य पट्टे सोमप्रभ सोमसमानकीर्तिः । सूरिर्वभौ यो भुवि सच्चकोरलोकं चकारास्तसमस्तशोकम् ॥५०॥ 10 गलत्कंलकं भुवि यो निजांक काव्यप्रभः काव्यनिबद्धशास्त्रम् । धनं विपश्चिजनरंजनं तद्विनिर्ममे निर्मलनिर्ममेशः ॥ ५१ ।। श्रीसोमकीर्तिनिकरः करणौघजेता श्रीयुक्तसोमतिलकाभिधसूरिराजः । तत्पदृपूर्ववसुधाधरतुगशृंगं विध्वस्ततामसभरोऽरचयदुचाट्यम् ॥ ५२ ।। श्रीसोममौलिसुरमौलिमलंकरोति स्मासौ नभोङ्गणविभूषणतुल्यसोमः । 15 श्रीसोमपुंद्रसुगुरुस्त्वकरोत्सवासं म्फूर्जन्मनः सुमनसां विगतैनसांसः ॥५३ दीव्यद्दयाः सहृदया हृदयावदातविद्योदया घनतरा भुवनेष्वभूवन् । श्रीस्तोमसोमतिलकस्य मुनीश्वरस्य साम्यं न केऽपि तु धुर्दधिशुभ्रकीर्तेः॥५४
जयानंदः सूरिस्निदशपतिसूरिर्निजधिया .. ... विनेयस्तस्यासीनयविनयसौभाग्यकलितः। 20 अभंग वैराग्यं दृढ़तमतमस्तोममथनं यदीयांगे चंगे प्रणयवशतो वासमकरोत् ॥ ५५ ॥ गुरौ यस्मिन् स्मेरद्युविदिनकरे संयमरमालसद्रामापाणिग्रहणमहमातन्वतितराम् । लघुभ्राता देव्या जिनमतजुषा मुनि निहतश्चपेटाभिः प्रादादनुमतिमसौ ताहण्जाम् ॥ ५६ ।।
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org