________________
पट्टावली-समुच्चयः सुधर्मश्रीजंबूप्रभृतिसुगुरून धीधनगुरून् । महौनत्यान् नित्याभ्युदयजयसत्कीर्तिकलितान् । दृशोऽतीतान् स्फीतान् नयति यतिराट् यः स्मृतिपथम् । गुणैश्चंद्रोन्निद्रैगिरिशगिरिशुभ्ररिह शुभैः ॥ ५७ ॥ सदर्पः कंदर्पः प्रसृमरभुजौजाः स समरे ऽवधि क्रोधो योधो निकृतिमदमात्सर्यसहितः। जयानंदश्रीमद्गुरुभिरपरेऽपीह रिपवो ऽन्तरंगास्तेऽखस्सिपदि हृतगर्वा विदधिरे ॥ ५ ॥ ये श्रीमद्गुरवो रवोर्जितजितप्रावृट्यनाः श्रीघनाः श्रीमद्गौतमसंनिभा हृदि निभान्मुक्ताश्च युक्ता गुणैः। 10 विश्व कीर्तिजलैः समुज्ज्वलतरैः प्रक्षालयंतः स्फुर
न्मूर्तिस्फूर्तिजुषः सृजति सुकृतश्रीप्राज्यराज्यं क्षितौ ॥ ५६ ॥ इति श्री युगप्रधानावतारश्रीबृहत्तपागच्छशृंगारहारभट्टारकपुरंदरपूज्यश्रीसोमसुंदरसूरिसौभाग्यवर्णने सोमसौभाग्यनाम्नि काव्ये श्रीतपागच्छपूर्वाचार्यसंहतिप्रकटनो नाम तृतीयः सर्गः ।। ३ ॥
अथ अनुपूर्तयःस्वर्ग ययुर्ययुचलेंद्रियजिजयाद्याऽऽनंदाह्वसूरिमुकुटाः प्रकटाभिधानाः।। श्रीदेवसुंदरगुरुप्रभवोऽभयंश्च, श्रीगच्छनायकतया विदितास्तदानीं ।।
-सर्ग ५ श्लो० १ अद्रीश्वरान्यंबुधिचंद्रसमिते, भृते प्रमोदप्रकरण वत्सरे। 20 समं भगिन्या गिरिदेवताद्युता, सोमेन दीक्षा जगृहे महामहैः ।।। श्रीसोमसुंदरयुनिस्त्विति नाम धाम,श्रेयःश्रियां वितरतिस्म यतीश्वरोऽसौ ॥ सोमाभिधानपुरुषप्रवरस्य तस्य, दीव्यद्गुणैः प्रसृमरस्य नतामरस्य ॥
(दीक्षा वि० सं० १४३७ ) सर्ग ४, श्लो० ५६-६०, श्रीवाचकोतमपदं खशराब्धिचंद्रसंवत्सरे विगतमत्सरचित्तवृत्तः ॥ 25
अब्दैः समस्य समभूत् नखसंमिताब्दे शाब्देन सन्मधुरिमाऽतिशयेन तस्य ॥१॥
___15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org