________________
३६
पट्टावली-समुचयः प्रह्लादनस्पृकूपुरपत्तने श्रीप्रह्लादनोर्वीपतिसद्विहारे। श्रीगच्छधुः किल यस्य वर्यश्रीसूरिमंत्रे सति दीयमाने ॥३३॥ सत्पात्रमात्रातिगसद्गुणातिप्रहृष्टहृल्लेखभृदग्यूलेखाः । कर्पूरकाश्मीरजकुंकुमादिगंधोदकं श्राक् ववृषुस्तदानीम् ॥३४॥ युग्मम् तत्पट्टपूर्वाद्रिविनिद्रभानुर्जगत्रयाह्नादनशीतभानुः । श्रीधर्मघोषः स्फुटइन्दघोषः स नन्दतानिर्मितपुण्यपोषः ॥३५॥ प्रबोधितो येन नयेन साधुः पृथ्वीधरः साधुधुरंधरोऽसौ । स्कारान् विहारांश्चतुरश्चतुर्भिः समन्विताशीतिमितानकार्षीत् ॥३६॥ षट् पूर्वपंचाशदतुल्यहेमघटीभिरिभ्यो रुचिरेंद्रमालाम् । कंठे निजे यो विनिवेश्य वश्यां मुक्तिं वशां तां हृदि मन्यते स्म ॥३७॥ 10 माधुर्यधुर्या च सुधासदेश्यां यद्देशनां श्रोतपुटैर्निपीय । पृथ्वीधरांगोद्भवझझणोऽसौ श्रीतीर्थयात्रां रचयन् पवित्रतां ॥३८॥ सुवर्णदुर्वर्णमयी किलैकामेवाद्भुतश्रेणिकरी पताकाम् । ददौ सदौचित्यधरः सुतीर्थे शत्रुजयाद्रावपि चोजयते ।।३।। युग्मम् श्रीधर्मघोपो गुरुरन्यदोव्यां गु| विहारं रचयन् समागात्। 15 श्रीउज्जयिन्यामलकाजयिन्यामनन्यसामान्यधनप्रभावः ॥४०॥ गुरुन्नतिं लोकनतिप्रसूतामतिप्रभूतां पुरि वीक्ष्य कश्चित् । होगी विपश्चित् कुपितः समागात् गुर्वाश्रमं संश्रित प्राप्तशिष्यैः ॥४१॥ सर्पान सदनि वदनोत्थतारफूत्कारवारैभरितांतरिक्षान् । मरः सहस्रात् स मुमोच विद्याकृतानि चान्यान्यपि वैकृतानि ॥४२॥ 20 पद्मासने ध्यानमथ प्रपूर्य सूर्यग्रणी यगुणोऽनणीयः । विनेयवृन्दैः सह तं बबंध स क्रौंचबंधं बुधसार्वभौमः ॥४३॥ निये म्रियेऽहं सह शिष्यलक्ष्मी मुच सद्यः सुगुरो ? प्रसद्य । कारुण्यपुण्यः श्रितसाम्यकाम्यस्त्वं वर्तसे यद् व्रतिनामिनश्च ॥४४॥ ततो व्यमुचद्गुरुचक्रवर्ती तं योगिनं योजितपाणिपद्मम् । 25 वतो मनः साम्यभृतां नितान्तं कांतं घृणासांद्रस्सैः प्रशस्यैः ॥४॥
Jain Education International
For Private & Personal Use.Only
www.jainelibrary.org