________________
[६] श्रीसोमसौभाग्य पड्डापली
[ कर्ता-मुनिश्रीप्रतिष्ठासोमः ] ततो गणः शिष्यततो वटाख्याख्यातोऽभवत्कापि वृहद्गणाः। तस्मिंश्च गच्छे प्रवरेषु भूरिसूरिष्वतीतेषु बहुश्रुतेषु ॥२३॥ श्रीमान् जगञ्चन्द्र इति प्रतीतनामा सुधामाजनि सूरिराजः । पत्रिंशदाचार्यगुणाः गणेंद्रं तं शिश्रियुः प्रेमभरप्रणुन्नाः ॥२४॥ युग्मम् स्वगोभरैर्ध्वस्तसमस्तपापतमाः क्षमादर्शितपुण्यमार्गः। जगजनानां प्रमदं वितन्वन् श्रीचन्द्रवद्योऽजनि सार्थकाहः ॥२शा वैराग्यवान द्वादश हायनान्याचामाम्लनिर्माणतपो ह्यतप्त । यो दुस्तपं तेन तपागणेति गणस्य सत्ख्यातिरभूत् क्षमायां ॥२६॥ श्रीमज्जगच्चन्द्रगुरोविनेयस्त्वमेयसद्गेयगुणैर्विनिद्रः । देवेंद्रमत्येंद्रमुनींद्रवंद्यो देवेंद्रसूरिः समभूत् प्रभाढयः ॥२७॥ 10 व्याख्याकलां यस्य कलां विलोक्य श्रीवस्तुपालादिमहेभ्यसभ्याः । के घूर्णयन्ति स्म न पूर्णचित्ताः शीर्षाणि हर्षेण च विस्मयेन ॥२८॥ कर्मसरूपप्रथनाट्य कर्मग्रंथादिसग्रंथविधानवेधाः। मेधाप्रधानो जगतां गतांहा व्यभासयजैनमतं मतं यः ॥२६॥ संशुद्धसाधुस्थितिदुर्गमार्ग प्ररूपयंश्चारु समाचरंश्च । अनल्पसंकल्पितदानकल्पद्रुमो ऽभवद्यो जिनकल्पिकल्पः ॥३०॥ ख्यातो दिगंते वितते तदंतेवासी खदासीकृतदेवरिः । निस्सीमगंभीरिमहृद्यविद्यानंदाह्वसूरींद्र इहावभासे ॥३१॥ अनोकहं नव्यलताः श्रिता वा सरित्पति वा सरितस्तता था। मरालबाला इव मानसं वा यं हृद्यविद्या हि तथा प्रथाढयाः ॥३२॥ 26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org