________________
10
गुरुपर्वक्रमः विश्वख्याततपागणाधिपतयः सार्वत्रिकस्यातयः
सद्वराग्यपयोधयत्रिजगतीदीव्यद्गुणश्रेणयः । आसन ग्रन्थकृतः सदागमभृतश्चारित्रलक्ष्मीवृतः
सद्भाग्याभ्यधिकाश्च सामतिलकाः सूरीशयन्दारकाः ।।५० ।। 5 तेषां शिष्यास्त्रयः ख्याता अभूवन्नद्भुतैर्गुणैः ।
ज्ञानदर्शनचारित्रयी मूर्तिमती किल ॥५१॥ संनुब्धसागरगभीररवेण नित्यमावर्जिताखिलजगजनमानसालिः । श्रीचन्द्रशेखरगुरुर्गरिमैकवाम विद्याविलासबसितः प्रथमो बभूव ॥५२॥
भव्यप्राणिशिवश्रियोः परिणये सांवत्सराधीश्वराः गाम्भीर्यादिगुणैर्निजैरुदधिवत्केनाप्यलब्धान्तराः। ते ऽजायन्त यतीश्वराइह जयानन्दा द्वितीयाः क्रमात् ।
येषां देवतया करेण निहतो भ्राता ऽनुमेने ब्रतम् ॥ ५३ ॥ वैराग्यं विमलं शमोऽतिविशदः शास्त्रज्ञता चाद्भुता , सिद्धान्तैकरुचिर्मनोहरतरा भव्योपकारः परः। चारित्रं त्रिजगत्यनुत्तरतमं भाग्यं ह्यसाधारणं, येषां श्रीयुत देवसुन्दरवराः ख्यातास्तृतीयास्तु ते ॥५४॥ एकद्वित्रिमुखैर्गुणैः कृतमदा देहेऽपि गेहेऽपि ये, नो मान्ति प्रचुरा नरा जगति ते सन्तु प्रकामं परे। ये सर्वेषु गुणेषु सत्स्वपि मदं कुर्वन्ति नो कहिचित् । 20 ते ऽमी श्रीयुतदेवसुन्दरवराः सन्त्येक एवावनौ ॥५५॥
न यन्निन्दास्तुती कत्तुं शक्यते खल सज्जनः ।
असद्भावेन दोषाणां गुणानां चाप्रमाणतः ॥५६॥ तच्छिष्याः सूरयः पञ्च मेरुपञ्चकसन्निभाः । सुवर्णभरविख्याता विद्यन्ते गरिमास्पदम् ।। ५७॥
25. १-यद्वैराग्यमखण्डितं बहुविधं नित्यं तपो यत्परं,
बाहुश्रुत्यमुदारविस्मयकरं यद्यश्च शान्तं मनः। .
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org