________________
पट्टावली-समुच्चयः योऽन्यो वाऽप्यभवद्गुणो गुरुवरे श्रीज्ञानतः सागरे
तत्सर्व नहि वीक्ष्यते गणिगणेऽन्यस्मिन् कदाऽपि कचित् ।।८।। २–दाक्षिण्यैकपयोधयश्चतुरसच्चेतश्चमत्कृद्गुणाः सिद्धान्तार्ण वगाहनैकरसिका उत्सर्गमार्गाध्वगाः। प्रागल्भ्यप्रवरास्तपोषिधिरताः सन्मत्युदाराशयाः
सब् श्रीकुलमण्डनाह्वयगुरूत्तंसा द्वितीया इमे ॥५॥ ३-भूतभाविभवत्सूरिक्रमरेणुकणोपमः
सरिः श्रीगुणरत्नावस्तृतीयः समजायत ।।६०॥ ४-श्री सोमसुन्दर इति प्रथिताभिधानाः
सौभाग्वभाग्यविशदाः क्षमया प्रधानाः तुर्याः मुधामधुरिमाश्चितवाग्विलासाः
सूरीश्वरा गुणिगुणैः कृतनित्यवासाः ॥६१॥ ५-श्री साधुरत्नाश्च ततो मुनीन्द्रास्तद्भुतं यत्सुगुणा यदीयाः।
नान्यत्र सन्तोऽपि जगज्जनानां सर्वत्र कर्णातिथयो भवन्ति ॥६२॥ 15 काले षड्स पूर्व १४६६ वत्सरमिते श्रीविक्रमार्काद्गते
व गुर्वादेशवशाद्विमृश्य च सदा स्वान्योपकारं परम् । अन्य श्रीगुणरत्नसूरिरतनोत्प्रज्ञाविहीनोऽप्यमु
निर्हेतूपकृतिप्रधानजननैः शोध्यस्त्वयं धीधनैः ॥ ६३ ॥
10
20
इति श्रीगुरुपर्वक्रमवर्णनम् अपरनाम श्रीक्रियारत्नसमुच्चयप्रशिस्तिः समाप्ता
Jain Education International
Jain Education International
For Private & Personal Use Only
For Private & Personali
www.jainelibrary.org