SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पट्टावली-समुच्चयः अङ्गारोहणवस्त्रपात्रवलकस्तम्भादनकादरान् दृष्ट्वा तान् वसतेर्बहिश्च परितः श्वानौतुसर्पध्वनीन् । श्रुत्वा रौद्रतमान् प्रकंप्रतनवो भीतेर्भरात्साधवो ऽन्योन्याह्वानपराश्च नालमभवन् स्थातु प्रणष्टुं तथा ॥४१॥ घनच्छन्नमुखे घटे प्रथमतः सज्जीकृते श्रीगुरु दत्त्वा हस्तमथाजपद्गतभयो यावत्स तावच्छठः । सर्वाङ्गेऽप्युदितं व्यथासमुदयं हतु विघोढुप्रणि होतुवाऽप्यसहस्ततोऽनुगजनानूचे प्रिये भो म्रिये ॥ ४२ ॥ धिक् मामनात्मज्ञमदीर्घदर्शिनं येनाभिमानादपमानितो गुरुः । काणुःक मेरुः क सरः क सागरः काहं हहा कैष च सर्वसिद्धिभृत् ॥४३॥ 10 भीतः सोऽविकलं निजं विलसितं संहृत्य पीडावशा___ दाक्रन्दंश्च कणंश्च तत्र वसतो गत्वा मुखात्ताङ्गुलिः ऊचेऽज्ञानवशाद्यदत्र विहितं तत्क्षम्यतां क्षम्यतां नातो वो विदधामि किञ्चिदशुभंसाक्षीजनोऽत्राखिलः।। ४४ ॥ निरीक्ष्य दीनं स्वपदोविलीनं तं योगिराजं सुसमाधिमाजम् । 15 चकार शान्तः प्रभुधर्मघोषः पुण्यप्रभायाश्च बभूव पोषः।। ४५॥ श्रीसोमप्रभसूरयो ऽजनिषताथैकादशाङ्गीस्फुर सूत्रार्थाः किल कार्तिके समधिके कृत्वा चतुर्मासकम् अन्याचार्यगणे निषेधति भृशं ये भीमपल्या ययु भङ्ग भाविनमेक्ष्य मन्त्रनिवहं नालुर्गुरुभ्यश्च ये ॥ ४६ ।। 20 तेषां विनेया वरभागधेयाश्चत्वार श्रासन स्वगुणैरमेयाः। चतुर्गतिभ्योऽसुमतां सुखेनोद्धाराय धर्मस्य वषि किं नु ॥४७॥ श्रीविमलप्रभुसूरिः श्रीपरमानन्दसूरिगुरुराजः। वचनातिगयतनावान् सूरिः श्रीपद्मतिलकगुरुः ॥४८॥ श्रीसोमतिलकाख्याश्च सूरयो यद्यशोऽर्णवे। 25 ज्योत्स्ना जलं ग्रहाः फेनपिण्डा वेलावलिर्दिशः ॥४६॥ युग्मम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy