________________
पट्टावली-समुच्चयः तेन तौ कौटिको ख्यातौ ततोऽभूत्कौटिको गणः ।
तत्रेन्द्रदिन्न-दिन| सूरिः सिंहगिरिस्ततः ॥७॥ जातिस्मृतिजृम्भकदत्तविद्ये श्रीसङ्घवात्सल्यमनीहता च ।
यस्मिन्नतुल्यान्यभवंस्ततोऽभूद् विभुः स वनो दशपूर्ववेदी॥८॥ श्रीवत्रशाखाधुरिवनसेनान्नागेन्द्रचन्द्रादिकुलप्रसूतिः । चान्द्रे कुले पूर्वगतश्रुताठ्यःसामन्तभद्रो विपिनादिवासी ॥६॥ ततोऽपि वृद्धोऽजनि देवसूरिः प्रद्योतनः सूरिरथो शमादयः। श्रीमानदेवोऽथ पदस्य काले यदंसयोर्वीक्ष्य रमागिरौ द्वे ॥१०॥ भ्रष्टोह्ययं ही भवितेति खिन्ने गुरौ विधिज्ञः किल योऽभ्यगृहात् । भक्ताङ्गिभक्तिं विकृतीश्च सर्वा आजन्म भोक्ष्ये न हि सर्वथेति ॥११॥ 10
पद्माजयादिदेवीभिर्नतो नड्ड्लपू:स्थितः । शाकम्भरीपुरे मारिं जड़े शान्तिस्तवाच यः ॥१२॥
-त्रिभिर्विशेषकम् । भक्तामराद्यद्भुतकाव्यसिद्धिः श्रीमानतुङ्गोऽथ बहुप्रसिद्धिः । श्रीवीरसूरिर्जयदेवदेवानन्दौ क्रमेण प्रभुविक्रमश्च ॥१३॥ नरसिंहपुरे बोधितहिंसकयतोऽथ सूरिनरसिंहः । नागदतीर्थकृते क्षपणकजेता समुद्रोऽथ ॥१४॥ ख्यातः श्रीहरिभद्रमित्रमभवत् श्रीमानदेवस्ततो मान्द्याद्विस्मृतसूरिमन्त्रमिह यो लेभेऽम्बिकाया मुखात् । तस्मात् श्रीविबुधप्रभोऽजनि जयानन्दस्ततः संयमी भव्याम्भोजरवी रविप्रभगुरुर्जज्ञेऽथ विज्ञेश्वरः ॥१५॥ सरस्वतीकण्ठसुवर्णभूषणख्यातियशोदेवयतीश्वरोऽमुतः । प्रद्युम्मसूरिजिनशासनाम्बरप्रद्योतनैकामणिस्ततोऽभवत् ॥१६॥ श्रीमानदेवोऽप्युपधानवाचकग्रन्थप्रेणताऽजनि विश्वपावकः । वादे जिते गोपगिरीशपूजितः सत्स्वर्णसिद्धिर्विमलेन्दुरप्यतः ॥१७॥ 25
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org