SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ [४] श्रीगुरुपर्वक्रमवर्णनम् (कत्ती-श्रीगुणालमूरिः) अनन्तं तज्ज्ञानं स हि निरुपमो दोषविलयो नतिः शक्रादीनामहमहमिकापूर्वमिह सा । विसंवादातीतं तदपि च वचो दैवतगणे न यस्मादन्यस्मिन् स जयतितरां वीरजिनपः ॥१॥ जयति विजितदोषः श्रीसुधर्मा गणेशो - जनितजनकजायाचौरबोधोऽथ जम्बूः । प्रभवविभुरथो यश्चौर्यलब्धत्रिरत्नो मनगतजिनबुद्धः सूरिशय्यम्भवोऽतः ॥२॥ यशोभद्रः सूरिस्तदनु समभूद्विश्वविदितः ततः सूरिः ख्यातोऽजनि जगति सम्भूतिविजयः। तथा भद्राद्वाहू रचितवरनियुक्तिततिको वराहाऽमोत्थं पशिवमहरद्यः स्तवनतः ॥३॥ योगीन्द्रः स्थूलभद्रोऽभूदथान्त्यः श्रुतकेवली। सिंहं खं दर्शयामास भगिनीविस्मयाय यः ॥४॥ तस्मान्महागिरिरभूजिनकल्पिकल्पः श्रीसम्प्रतेनरपतेश्च गुरुः सुहस्ती। शिष्योत्तमाक्थ सुहस्तिविभोरभूतां . श्रीसुस्थितस्थविर-सुप्रतिबद्धसूरी ॥२॥ तदा च सूरिमन्त्रस्य ध्याता ज्ञानचतुष्कवान् । सर्वदृष्ट द्रव्याणां कोट्यंशमवलोकते ॥६॥ 10 20 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy