SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ G गुरुपर्वक्रमः २७ युगाङ्कनन्दप्रमिते ६६४ गतेऽन्दे श्रीविक्रमार्कात्सह संघलोकैः। पूर्वावनीतो विहरन् धरायामुद्द्योतनः सूरिरथार्बुदाधः ॥१८॥ आगत्य टेलीपुरसीमसंस्थपद्यासमासनबृहद्वटाधः ।। शुभे मुहूर्ते स्वपदेऽष्टसूरीनतिष्ठिपत्सौवकुलोदयाय ॥१६॥ ॥ युग्मम् ॥ 5 ततो (३५) गणोऽयं वटगच्छसंज्ञोऽप्यभूद् बृहद्गच्छ इति प्रसिद्धः । श्रीसर्वदेवो विदितोऽतिभूरिप्रशस्यशिष्यः प्रथमोऽत्र सूरिः ॥२०॥ रूपश्रीबिरुदख्यातो देवसूरिस्ततोऽभवत्।। श्रीसर्वदेवसूरीन्द्रः पुनरासीद्गुणोदधिः ॥२१॥ तस्माद्यशोभद्रयतीशचन्द्रः श्रीनेमिचन्द्रश्च विनिद्रभद्रः। 10 ततोऽजनि श्रीमुनिचन्द्रसूरिः प्रज्ञापराभूतसुपर्वसूरिः ॥२२॥ नित्यं पपौ काञ्जिकमेकमम्भस्तत्याज सर्वा विकृतीश्च सम्यग् । जिगाय यो भावरिपूश्च सोऽयं श्लाघ्यो न केषां मुनिचंद्रसूरिः ॥२३॥ तस्याभवन्नजितदेवमुनीन्द्रवादिश्रीदेवसूरिवृषभप्रमुखा विनेयाः। आद्यादभूद्विजयसिंहगुरुगरीयान्निस्सङ्गतादिकगुणैरनिशं वरीयान् ।।२४॥ ततः शतार्थिकः ख्यातः श्रीसोमनप्रभसूरिराट् । सूरिः श्रीमणिरत्नश्च भारत्यास्तनयाविव ॥२५॥ मणिरत्नगुरोः शिष्याः श्रीजगचन्द्रसूरयः। सिद्धान्तवाचनोद्भूतवैराग्यरसवार्द्धयः ॥२६॥ विधोश्चैत्रगाणाम्भोधौ तपोज्ञानक्रियानिधेः । वाचकानाममकारात् देवभद्रगणीश्वरात् ॥२७॥ चारित्रमुपसम्पद्य यावज्जीवमभिग्रहात् । आचामाम्लतपस्तेनुस्तपागच्छस्ततोऽभवत् ॥२८॥ 25 -त्रिभिर्विशेषकम् JK Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy