SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४६ पट्टावली-समुच्चयः अन्ये श्रीजयचंद्रः, सूरिः श्रीभुवनसुंदराह्वश्च । श्रीजिनसुन्दरसूरि-जिनकीर्तिश्चेति सुरींद्राः ॥२०॥ मुनिसुंदरसूरिपट्टभानु-र्गुरुरासीदथ रत्नशेखराऽऽख्यः । दधदस्य पद'बभूवलक्ष्मी-पदयुक्सागरसूरिरीश्वराय॑ः ॥२१॥ सुमतिसाधुगुरुस्तदनुप्रभा-मुदरहद्दधदस्य पदं प्रभुः। पदमदीदिएदस्य च हेमयुग-विमलसूरिरुदात्तगुणोदयः ॥२२॥ प?'तस्य बभूवुरुग्रतपसो वैरंगिकाग्रेसराः। 'आनंदाद्विमलाऽऽह्वया गणभृतो भव्योपकारोक्षुराः ॥ ये नेत्रेभशराऽमृतयुतिमिते (१५८२) वर्षे क्रियोद्धारतश्चक्रुः स्वां जिनशासनस्य शिखरे कीति पताकामिव ।।२३॥ 10 प्रमादाऽभ्रच्छन्नं चरणतरणिं मंदाकिरणं । पुनश्चक्रे दीप्तं , रुचिररुचिरब्दात्यय इव ।। सृजन्पद्मोल्लासं सुविशदपथश्चन्द्रमधुरो। दिदीपे निष्पंकः स इह गुरुरानंदविमलः ॥२४॥ विजयदानगुरुस्तदनुद्युति, तपगणेऽधिकभाग्यनिधिर्दधौ । श्रुतमहोदधिरेधितसद्विधि--विधुयशा जिनधर्मधुरंधरः ॥२५॥ अभूत्प? तस्योल्लसितविजयो हीरविजयो। गुरुर्गीवाणौघप्रथितमहिमा ऽस्मिन्नपि युगे। प्रबुद्धोम्लेच्छेशो ऽप्यकबरनृपो यस्य वचसा। दयादानोदारो व्यतनुत महीमाईतमयीम् ..२६॥ 20 तदनुविजयसेनसूरिराज-स्तपगणराज्यधुरं दधार धीरः । अकवरनृपतेः पुरो जयश्रीर्यमवरीदुरुवादिवृंददत्ता ॥२७॥ जयति विजयदेवः सूरिरेतस्य पट्टे, मुकुटमणिरिवोद्यत्कीर्तिकांतिप्रतापः प्रथितपृथुतप:श्रीः शुद्धधीरिंद्रभूतेः, प्रतिनिधिरधिदक्षो जंगमः कल्पवृक्षः ॥२८॥ तेन श्रीगुरुणाहितो निजपदे दीपोपमो ऽदीदिपत् । सूरिः श्रीविजयादिसिंहसुगुरुः प्राज्यैर्महोभिर्जगत् ।। 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy