SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीसूरिपरम्परा १४५ जयानन्दः पट्टे श्रियमपुषदस्याऽस्य च रवि-- प्रभस्तत्पद्देशः समजनि यशोदेवमुनिराट् ॥ ततः प्रद्युम्नाख्या गुरुरुदयति स्मा ऽथ पुनरप्यभून्मानाद्देवो गुरुविमलचंद्रश्च तदनु ॥६॥ तस्मादुद्योतनाख्यो गुरुरभवदितः सर्वदेवो मुनीन्द्र- 5 स्तस्माच्छीदेवसूरिस्तदनु पुनरभूत् सर्वदेवस्ततश्च ॥ अज्ञाते सूरिराजौ प्रगुणगुणयशोभद्र-सन्नेमिचंद्रौ विख्यातौ भूतलेऽस्मिन्नविरतमुदितौ नूतनौ पुष्पदंतौ ॥१०॥ मुनिचंद्र मुनिस्ततो ऽद्भुतोऽथा-ऽजितदेवश्च तदन्तिषद्वरेण्यः । अपरः पुनरस्य शिष्यमुख्यो, भूवि वादी विदितश्च देवसूरिः ॥११६ 10 अजितदेवगुरोरभवत्पदे, विजयसिंह इति प्रथितः क्षितौ । तदनु तस्य पदं दधतावुभा-वभवतां गणभारधुरंधरौ ॥१२॥ सोमप्रभस्तत्र गुरुः शतार्थी, सतांमणिः श्रीमणिरत्नसूरिः। पट्ट मणिः श्रीमणिरत्नसूरे-जज्ञे जगञ्चन्द्रगुरुर्गरीयान् ॥१३॥ तपामुभावंतिषदावभूता, देवेंद्रसूरिर्विजयाच्च चंद्रः । देवेंद्रसूरेरभवच्च विद्या-नन्दस्तथा श्रीगुरुधर्मघोषः ॥१४ . श्रीधर्मघोषादजनिष्ट सोम --प्रभो ऽस्य शिष्याश्च युगप्रमेयाः । चतुर्दिगुत्पन्नजनावनाय, योधा इव प्राप्तविशुद्धबोधाः ॥१५॥ श्रीविमलप्रभसूरिः, परमानन्दश्च पद्मतिलकश्च ।। सूरिवरोऽप्यथ सोम-प्रभप? शश्च सोमतिलकगुरुः ॥१६॥ शिष्यालयस्तस्य च चंद्रशेखरः, सूरिर्जयानन्द इतीह सूरिराट् । स्वपट्टसिंहासनभूमिवासवः, शिष्यस्तृतीयो गुरुदेवसुन्दरः ॥१७॥ श्रीदेवसुन्दरगुरोरथ पश्च शिष्याः, श्रीज्ञानसागरगुरुः कुलमंडनश्च । चंचद्गुणश्च गुणरत्नगुरुमहात्मा, श्रीसोमसुन्दरगुरुगुरुसाधुरत्नः ॥१८॥ श्रीदेवसुंदरमुनीश्वरपट्टनेतुः , श्रीसोमसुंदरगुरोरपि ‘पञ्च' शिष्याः। 25 तत्र स्वपट्टवियदंगणभानुमाली, मुख्योंऽतिषद्गणधरो मुनिसुंदराख्यः ॥१६॥ 20 १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy