________________
[१०]
श्रीसूरिफरंपरा [ कर्ता-महोपाध्यायः श्रीविनयविजयगणिः ]
SAश्रेयः श्रीवर्द्धमानो दिशतु शतमखश्रेणिभिः स्तूयमानः । सत्दमाभृत्सेव्यपादः कृतसदुपकृतिर्गोपतिर्नूतनो वः ॥ कालेऽप्यस्मिन्प्रदोषे कटुकुमतिकुहूकल्पितध्वांतपोषे। प्रादुष्कुर्वन्ति गावः प्रसृमरविभवा युक्तिमार्ग यदीयाः ॥१॥ तत्प?ऽथेंद्रभूतेरनुज उदभवच्छोसुधर्मा गणींद्रो । जंबूस्तत्पट्टदीपः प्रभव इति भवांभोधिनौस्तस्य पट्टे । सूरिः शय्यंभवो ऽभूत्स मनकजनकस्तत्पदांभोजभानुस्तत्पदैरावतेंद्रो जनविदितयशाः श्रीयशोभद्रसूरिः ॥२॥ तत्पट्टभारधूयौँ, गणधरवयौं श्रियं दधाते द्वौ ।
संभूतविजयसूरिः सूरिः श्रीभद्रबाहुश्च ॥३॥ श्रीस्थूलभद्र उदियाय तयोश्च पट्टे, जातौ महागिरिसुहस्निगुरू ततश्च । पट्टे तयोः श्रियमुभौ दधतुर्गणीद्रौ,श्रीसुस्थितो जगति सुप्रतिबद्धकश्च ॥४॥ तत्पभूषणमणिर्गुरुरिंद्रदिन्नः, श्रीदिन्नसूरिरथ तस्य पदाधिकारी ॥ पट्टेरराज गुरुसिंहगिरिस्तदीये, स्वामी च वज्रगुरुरस्य पदे बभूव ॥५॥ श्रीवासेनसुगुरुर्बिभरांबभूव, पटं तदीयमथ चंद्रगुरुः पदे ऽस्य । 15 सामन्तभद्रगुरुरुन्नतिमस्य पट्टे, चक्रेऽस्य पट्टमभजद्गुरुदेवसूरिः॥६॥ प्रद्योतनस्तदनु तस्य पदे च मान-देवस्तदीयपदभृद्गुरुमानतुङ्गः । वीरस्ततोऽथ जयदेव इतश्च देवानन्दस्ततश्च भुवि विक्रमसूरिरासीत् ॥७॥ तस्माद्बभूव नरसिंह इति प्रतीतः, सूरिः समुद्र इति पट्टपतिस्तदीयः। सूरिः पदेऽस्य पुनरप्यजनिष्टमान-देवस्ततश्च विबुधप्रभसूरिरासीत् ।।८।। 20
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org