________________
श्रीसूरिपरम्परा भूमौ स प्रतिबोध्य भव्यनिवहान् स्वर्गेप्यथ स्वर्गिणः । प्राप्तो बोधयितु गुरौ विजयिनि "प्रेमाण” मुत्सृज्य नः ॥२६॥ तदनुपट्टपतिर्विहितो ऽधुना, विजयदेवतपागणभूभृता। गुणगणप्रगुणो ऽनणुभाग्यभू-विजयते गणभृद्विजयप्रभः ॥३०॥ निग्रंथः श्रीसुधर्माऽभिधगणधरतः कोटिकः सुस्थिताऽऽर्याचद्रः श्रीचंद्रसूरेस्तदनु च वनवासीति सामंतभद्रात् ॥ . सूरेः श्रीसर्वदेवाद्वटगण इति यः श्री जगञ्चन्द्रसूरेविश्वे ख्यातस्तपाऽऽख्यो जगति विजयतामेषगच्छोगरीयान्॥३१॥
अथ प्रशस्तिः इतश्च-श्रीहीरविजयसूरीश्वर-शिष्यौ सोदरावभूतां द्वौ।
श्रीसोमविजयवाचक-वाचकवरकीर्तिविजयाख्यौ ॥३२॥ तत्र कीर्तिविजयस्य, किंस्तुमः सुप्रभावममृतद्युतेरिव । यत्कराऽतिशयतोऽजनि-ष्ट मत्प्रस्तरादपि सुधारसोऽसकौ ॥३॥ प्रतिक्रियां का यदुपक्रियाणां,गरीयसीनामनुसतु मीशे। ज्ञानादिदानैरुपचर्य सोऽयं, यैः कल्पितः कीटकणोऽपि कुंभी।॥३४॥15,
विनयविजयनामा वाचकस्तद्विनेयः समभदणुशक्तिपंथमेनं महाथ ॥ . तदिह किमपितत्स्यात्तुएणमुत्सूत्रकाऽऽद्यं ।
मयि विहितकृपैस्तत्कोविदैः शोधनीयं ॥३॥ (रचना वि० सं०१७०८वर्षे राधोज्वलपंचम्यां जीर्णदुर्गे ॥). 20. इति लोकप्रकाशनाम्नः सप्तत्रिंशद्सर्गबन्धस्य । जिनराजकोशस्य
. श्रीसूरिपरंपरा-प्रशस्तिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org