________________
श्रीमन्महावीरपट्टपरम्परा प्रझुम्नदेवोऽथ पदे तदीये प्रमुनदेवो ऽभिनवो बभूव । भिन्दन्मवं मुक्तरतिर्दवीयो भवन्मधुर्विश्वविभाव्यमूर्तिः ।।६।। श्रीमानदेवेन पुनः स्वकीर्तिज्योत्स्नावदातीकृतविष्टपेन । एतत्पदश्रीरगमि प्रतिष्ठां शक्तित्रयेणेव नरेन्द्रलक्ष्मीः ।। १२ । वाचंयमेन्द्राद्विमलादिचन्द्रात्पदाब्जभृङ्गोभवदिन्द्रचन्द्रात् । अमुष्य पट्टः श्रियमश्नुते स्म परंतपाद्भप इव प्रतापात् ।।६३॥ रेजे ऽस्य पट्टे स्मररूपधेयः सुरीन्दुरुयोतननामधेयः । दिग्वारणेद्रा इव सूरिचन्द्राः संजज्ञिरे यत्पदधारिणोऽष्टौ ।।६४॥ मुहूर्तमद्वैतमवेत्य टेलीग्रामस्य यः सीनि बृहदटाधः । अस्थापयच्चैत्यतरोस्तलेऽष्टौ पार्यो गणेन्द्रानिव काशिकुंओ ॥६५॥ 10 शाखाप्रशाखाभिरमुष्य वृद्धि हटस्यैव यतो भवित्री । ततो बृहद्गच्छ इतीह नामाऽपरं गणस्य प्रकटीबभूव ॥६६॥ माहाम्यनम्रीकृतसर्वदेवः पदे तदीये ऽजनि सर्वदेवः। . तारापतिस्तारकपर्षदेव गुणश्रिया यः प्रभुरन्वयायि ।।६७ यो रामसेनाह्वपुरे व्रतीन्दुर्लब्धिश्रियं गौतमवद्दधानः । नाभेयचैत्ये महसेनसूनोर्जिनस्य मूर्तेर्विदधे प्रतिष्ठाम् ॥१८॥ चंद्रावतीशस्य नृपस्य नेत्र इवास योऽशेषविशेषदर्शी। तं क्लुप्तचैत्यं प्रतिबोध्य वाचा प्रावाजयत्कुंकुणमंत्रिणं यः ॥६॥ कुर्वनिवासं गवि गौरवश्रीगिरामधीशो विधैरुपास्यः । श्रीदेवसूरिः किमु देवसूरिः पदे तदीयेऽप्यजनि क्रमेण ॥१०॥
20 दोषोदयोदीततमःप्रपञ्च-व्यापादनव्याटतिदीक्षितेन । श्रीसर्वदेवेन पदं तदीयमदीपि दीपेन यथा निकेतम् ॥१०१।। श्रीमद्यशोभद्रगणावनीन्द्रः श्रीनेमिचन्द्रबतिपुङ्गवश्च । तत्पट्टमाकन्दमुभौ भजेते शुकोऽन्यपुष्टश्च यथा विहंगौ ॥१०२॥ तयोः पदे श्रीमुनिचन्द्रसूरिरभूत्ततो निर्मितनैकशास्त्रः । शास्त्रे न कुत्रापि तदीयबुद्धिश्चरखाल वीखेव समीरणस्य ॥१०३॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org