________________
पट्टावली - समुच्चयः
भयादिमेनाथ हरस्तवेन यो दुष्टदेवादिकृतोपसर्गान् । श्रीभद्रबाहुः स्वकृतोपसर्गहस्तपेनेव जहार संघात् ॥ ७८ ॥ सद्ध्याननागेश्वररश्मिसाम्यमन्थाद्रिणालोड्य मदाम्बुराशिम् । तत्पट्टलक्ष्मीरथ वीरनाम्नाचार्येण वत्रे वनमालिनेव ॥ ७६ ॥ ततोऽजनि श्रीजयदेवसूरिदूरीकृताशेषकुवादिवृन्दः । यद्वाग्विलासैरवहेलितश्रीः सुधा किमु क्षीरनिधौ ममज ॥ ८० ॥ स्वः कामिनीकीर्तितकीर्ति देवानन्दश्चिदानन्दमना मुनीन्द्रः । तारुण्यमेशाङ्कमुखीमिवैतत्पदृश्रियं वैभवमानिनाय ॥ ८१ ॥ श्रीविक्रमः सूरिपुरन्दरोऽभूत्तत्पट्टदुग्धाब्धिसुधामरीचिः । तमश्चमूं हन्तुमनाः समग्रां किं विक्रमोऽङ्गीकृतकाययष्टिः ||२|| आसीत्तत: श्रीनरसिंहसूरिः स वाङ्मयाम्भोनिधिपारदृश्वा ।
१२८
त्या यक्षः किल येन मांसं स्वापं जगद्वारि जबन्धुनेव || ३ || महर्घ्यमाणिक्यमिवांगुलीयं षोमाण भूपालकुलप्रदीपः । पट्टश्रियं श्रीनरसिंहसूरेरलंकरोति स्म समूद्रसूरिः ॥ ८४ ॥ दिग्वाससो येन विजित्य वादे नागदे नागनमस्य तीर्थम् । स्ववश्यमानीयत भूमिभर्त्रा दुर्ग: प्रतीपानिव संपराये ॥८५॥ स मानदेवोऽजनि तस्य पट्टे वाग्देवता यन्मुखपद्मसद्म । तृप्तामृतैश्चारुवचोविलासच्छलादिवोद्गारमिवातनोति ॥ ८६ ॥ पदेतदीये विबुधप्रभेण स्म भूयते सूरिपुरंदरेण ।
येनाभिभूतः किल पुष्पधन्वा पुनर्युयुत्सुर्विषमायुधोऽभूत् ॥ ८७ ॥ तत्पट्टपंकेरुहमानसौकाः श्रीमाञ्जयानन्दविभुर्बभूव ।
यस्याशये ऽमात्समयो ऽप्यशेषः कुम्भोद्भवस्य प्रसृताविवान्धिः ॥८८॥ यदाननं चन्द्रति दन्तकान्तिर्ज्योत्स्नायते भ्र युगमङ्कतीह । बाचां बिलासोऽनि सुधायते तत्पदे मुनीन्द्रः स रविप्रभोऽभूत् ॥८॥ वर्धिष्णु यत्कीर्तिसुधारणंवेन व्यलुम्पि नामाप्यसितादिभावः । अईन्मदिमेव जगत्यजन्यैः सोऽभूद्यशोदेवविभुः पदेऽस्य ॥६०॥
Jain Education International
For Private & Personal Use Only
5
10
15
20
25
www.jainelibrary.org