________________
! मन्महावीरपट्टपरम्परा
इत्थं गुरु स्वं विमनायमान-मालोक्य लोकेश्वर गीतकीर्तिः । तत्याज यः षड्विकृतीव्रतीन्द्रः षडान्तरारीनित्र जेतुकामः ॥७३॥ चमूभिरुर्वीन्द्रमिवामरीभिरुपास्यमानं यमवेक्ष्य कश्चित् । किं स्त्रीयुतोऽसाविति संशयानो नड्डूलके ऽशिक्ष्यत तारेव ॥७४॥ तदीयपट्टाम्बरभानुमाली श्रीमानतुङ्गश्रमणेन्दुरासीत् । य श्रजिढत्साधु जनान्निजाज्ञां नाथान्पृथिव्या इवं सार्वभौमः ॥७५॥ भक्तामराह्नस्तवनेन सूरिर्बभञ्ज योऽङ्गान्निगडानशेषान् । प्रवर्तितामन्दमदोदयेन गम्भीरवेद्वीव करी धरेन्दोः ॥७६॥ श्रीमानतुङ्गः करणेन भक्तामरस्तुतेस्तं चितिशीतकान्तिम् । चकार नम्र फलपुष्पपत्रभारेण यद्वत्फलदं वसन्तः ॥७७॥
Jain Education International
"
१२७
७४- — चमू भिर्गजवाजिरथपत्तिलक्षणाभिश्चतुरङ्गिणीभिः सेनाभिः उर्वीन्द्रं क्षोणीशक्रमिव । पद्मा-जया - विजया - श्रपराजिताभिधाभिश्चतसृभिर्देवीभिः प्रत्यक्षमुपास्यमानं सेव्यमानं नडुलयनगरोपाश्रयापवरके यं मानदेवसूरिमवेच्य दृष्ट्वा असौ श्राचार्यः किं स्त्रीयुतो वनिताकलितोऽस्तीति संशयानः संदेहं कुर्वाणः । कश्चित् स्वयं संतिष्ठासुतया दुष्टयवनप्रकरैः प्रणुन्नतन्निकृष्टनिर्जरनिर्मितजनमायु पलवोपलुतेन तिचशिलानगरीसंघेन कृतकायोत्सर्गप्रभावादागत ( या ) नडू लपुरस्थितश्रीमानदेवसूरयो यद्यत्रायान्ति तदा शान्तिर्भवेत् परमत्र म्लेच्छा श्रागत्य स्थास्यन्ति, ततः संघेन त्रिवर्षीमध्येऽन्यत्र कुत्रापि गत्वा स्थातव्यमिति जिनशासनदेव्या गिरा श्रीम.नदेवसूरीन्द्राकारणार्थं तत्समय एव स्वजनमरकोपद्रवप्रशमनोत्सुकी भूततत्संवेन प्रेषितः । श्रज्ञातसूरिस्वरूपः कोऽपि श्राद्धः । ताभिर्विजय प्रमुखसूरीभिरेवाशिक्षि शिक्षां ताडयित्वा कुहयित्वा दृढबन्धनबद्धः पूत्कुर्वाणः कृपापारावार श्रीगुरुवाचैव मुक्तः । यत्रैवंविधाः शंकाभाजः श्राद्धास्तत्र सर्वथापि श्रीपूज्यपादैर्न गन्तव्यमिति विजयादेवतया निषिद्धाः सन्तः श्रीगुरुवस्तत्संवे शान्त्यर्थं 'शान्ति शान्तिनिशान्तम्' इति विजयादेवीमन्त्रमय लघुशान्ति विधाय तच्छ्राद्धेन सार्धं प्रेषयित्वा तत्र सरकोपद्रवं निवारितवानिति शेषः । इति श्रीमानदेवसूरिः ॥ इति तद्वृत्तिः ॥
For Private & Personal Use Only
5
10
www.jainelibrary.org