________________
१२६
पट्टावली - समुच्चयः
5
चत्वार एतत्तनया विनेयाः शाखाभृतस्तस्य विभोर्बभूवुः । इवामरद्वेषिचमूजयश्रीजुषः सुरेन्द्रद्विरदस्य दन्ताः ||६२|| भर्त्रा सुराणामिव लोकपालेष्वेतेषु सौदर्य यतीश्वरेषु । श्रीचन्द्रनाम्ना मुनिपुंगवेन तत्पट्टपूर्वा प्रमदेन भेजे ॥ ६३ ॥ राजा स्वयं राजनतं सदोषो निर्दोषमकोपगतो निरङ्कम् । सास्तो निरस्तं च निजाधिकं यं समीक्ष्य चिताय शशी किमर्त्या || ६४ ॥ श्रीचन्द्रसूरेरथ चन्द्रगच्छ इति प्रथा प्रादुरभूद्गणस्य । भागीरथीनाम भगीरथाख्यमहीमहेन्द्रादिव देवनद्याः ||६५|| कल्लोलिकारुण्यरसान्वितस्य सामन्तभद्रप्रभुरस्य पट्टम् । व्यराजयद्वारिरुहाकरस्यमध्यं यथोन्निद्रितपुण्डरीकम् ||६६ || वैमुख्यभाग्यो विषयात्कुरङ्गद्वेषीव जज्ञे विपिने निवासी । तस्मान्मुनीन्दोर्वनवासिसंज्ञा परा पुनः प्रादुभून्मुनीनाम् ||६७|| कोरण्टके वीरजिनेन्द्रमूर्ति दृक्पान्थवृत्तिं कृतपुण्यपाकाम् । यः प्रत्यतिष्ठत्किमु सत्त्रशालां स वृद्धदेवो ऽजनि तस्य पट्ट े ॥ ६८ ॥ प्रद्योतनाह्नप्रभुरणा ऽप्यमुष्य पट्ट परं वैभवमाबभार । त्रैलोक्यलक्ष्मीतिलकायितेन पितुः स्वपुत्रेण यथान्ववायः ॥ ६६ ॥ प्रबोधयन्भव्यसरोजराजीः संशोषयन्दुर्नयकर्दमांश्च ।
दोषोदयं निर्दलयन्महस्वी प्रद्योतनो ऽन्यः किमभूद्भवोऽयम् ॥७०॥ धिया जयंश्चित्रशिखण्डिसूनुं गङ्गातरंगायितवाग्विलासः । श्रीमानदेवः पदमेतदीयं सभ्यः सभास्थानमिवाध्युवास ॥ ७१ ॥ पदप्रदानावसरे समीक्ष्य साक्षात्तदंसोपरिवाणिपद्मे ।
राज्यादिव क्षोणिपुरंदरस्य भ्रंशोऽस्य भावी नियमस्थिते ॥७२॥.
Jain Education International
10
For Private & Personal Use Only
15
भ्यस्य द्वितीये श्रागामिनि दिने वासरे भावि भविष्यत्सुभिक्षं सुकालं न्यवेदयत् कथयामास । + + तस्यैव चतुर्नन्दनस्येभ्यस्य दीक्षाग्रहणवाग्बंधपूर्वकं श्वस्तनदिने याममध्ये पञ्चशतीयुगंधरीधान्यभ तवाहनागमनैर्भाविसुकालमावेदितवान् इत्यर्थः ॥ इति तद्ब्याख्यायाम् ॥
20%
www.jainelibrary.org