________________
श्रीमन्महावीरपट्टपरम्परा
सहैव देहेन समग्रसंघं नयत्यसौ सिद्धिपुरीमिवैनम् । जनैरिति व्योमनि तर्क्यमाणः पटः प्रभोबद्ध पुरीमवाप ॥ ५५ ॥ ध्यातुर्वरं श्री श्रुतदेवतेव यस्यादरात्पद्ममदत्त पद्मा | वनात्पितुर्मित्रहुताशनस्याग्रहाश्च यो विंशतिलक्षपुष्पान् ||५६|| मूतैरिव स्वस्य गुणैः प्रफुल्लत्पुष्पोत्करैः पर्युषणाक्षणेषु । समुन्नतिं शाम्भवशासनस्य तस्यां सुनन्दातनयस्ततान ॥५७॥ प्राबोधयद्वौद्धपुरीप्रभुं यः समं समग्रैरपि पौरलोकैः । साकं शकुन्तैरिव पङ्कजानां कुञ्जं समुद्यद्गगनाध्वनीनः ||५८ || अपास्यति स्माव्यसुतां सरागां यो रुक्मिणीं काञ्चनकोटिभिश्च । क्रीडन्मृगेन्द्रां स्मितसल्लकीभिर्निकुञ्जराजीमिव कुञ्जरेन्द्रः ||५६|| श्रीवत्रसेनोऽथ तदीयपट्ट व्यभासयत्प्रीणितजन्तुजातः । स्फुरन्मदोर्भेद इव द्विपेन्द्रकपोलमानन्दितचञ्चरीकः ॥६०॥ दुर्भिक्षके पायसमक्ष्य लक्षपक्कं महेभ्यस्य गृहे प्रभुर्यः । दिने द्वितीये कुलदेवतेव न्यवेदयद्भाविसुकालमस्य ॥ ६१ ॥
वचनात् ।
५६ - पर्युपदिनेषु श्रष्टान्हिका महोत्सवं कर्तु मिच्छो: जैनद्विष्टतया बौधनृपतिवारितमालिमण्डजत् पुष्पमात्रमध्यनाप्नुवतः संघस्य कृते कुसुमानयनार्थं प्रस्थितस्य पद्मइदे यातस्य यस्य वज्रस्वामिनः पद्मा लक्ष्मी आदरात् भक्तिभरतः स्तवनवंदनपूर्वकम् पद्म स्वहद्दात् सहस्रपत्रमादाय भगवत्पूजार्थं प्रयान्ती श्रीमत्सहस्त्रदलकमलं पद्मार्थोपगतायास्मै श्रदत्त दत्तवती ॥ + + ( विंशतिलतपुष्पाणि) मित्रतिर्थक्जृम्भकदेवविनिर्मितिविमाने स्थापितवानित्यर्थः ॥ इतितद्न्वाख्यायाम् ||
५६ - कोडी सर घणसंचियस्स गुणस्स भरियाए कक्षाए । इत्युपदेशमाला
१२५
Jain Education International
10
किंभूनाम् ? सरागां स्वसौधसंश्निधिस्थितसाध्वीगीयमानयद्गुणग्रामाऽऽ कमोद्भूतानुरागवशंवदतया 'अस्मिन् भवे मम प्राणनाथो वज्रस्वाम्येव नान्यः' इति कृतनिश्चयतया सस्नेहां जहाँ । इति तदव्याख्यायाम् ।
६१-यः वज्रसेनः प्रभुर्गणस्वामी दुर्भिचके द्वितीयवारं द्वादशहायनजल वृष्टेरुद्भूतदुष्काल समये श्रीवजूस्वामिना दक्षिणस्यां दिशि प्रेषितः सन् अस्य
For Private & Personal Use Only
www.jainelibrary.org