________________
5
पभवासा।
१२४
'पट्टावली-समुच्चयः स्थाने स्ववस्तुखिदिवं गतस्य व्यधादवन्तीसुकुमालसूनुः । नाम्ना महाकाल इतीह पुण्यपानीयशालामिव सार्वशालाम् ॥४२॥ श्रीमत्सुहस्तित्रतिवासवस्य श्रीसुस्थितः सुप्रतिबद्धसूरिः। पदं विनेयौ नयतः खलक्ष्मी क्रम मुरारेरिव पुष्पदन्तौ ॥ ४३ ॥ प्रीति सृजन्ती पुरुषोत्तमानां दुग्धाम्बुराशेरिव पद्मवासा। हृदा जिनं बिभ्रत आविरासीत्तत्सूरियुग्मादिह “कौटिकारव्या" ॥४४|| श्रीइन्द्रदिन्नतिसार्वभौमस्तत्पट्टलक्ष्मीतिलकं बभूव । निशुम्भ्यते दांभिकता स्म येन कलिन्दकन्येव हलायुधेन ॥४॥ पक्षद्वयं भिन्नतमोभरेण पित्रोः पवित्रीक्रियते स्म येन । कुवेरदिग्दक्षिणयोः पदव्योर्द्वन्द्व प्रियेणेव पयोजिनीनाम् ।।४६॥ 10 श्रीदिन्नसूरिगुणभूरिरस्मात्सप्तर्षिभूरंगिरसो यथासीत् । येनानुरागोऽवधि कालनेमिः कल्लोलिनी वल्लभशायिनेव ॥४७॥ पञ्चाशुगान्यः समितीविधाय बभञ्ज पञ्चाशुगपञ्चबाणीम् । शरेण केनापि न चेत्कदाचित्कस्मान्न तं स प्रभवेद्वपुष्मान ॥४८॥ सूरीश्वरः सीहगिरिः क्रमेण व्यभासयत्तत्प्रभुपट्टलक्ष्मीम्। 15 जिनस्य पादं शिरसा स्पृशन्ती निकाय्यराजीमिव केतुवारः ॥४६॥ विन्ध्यं निपीताब्धिरिव तीन्द्रो य एधमानं निषिषेध कोपम् । यद्वाक्तरङ्गश्च जिताभ्रसिंधुपातिरेकादिव निमग्नगासीत् ॥५०॥ तमोभरोर्वीधरभेदवत्रिवनोऽथ वनप्रभुरेतदीयम् ।। पट्ट परां प्रापयति स्म भूषां माणिक्यकोटीर इवोत्तमांगम् ॥५१॥ 20 आशैशवादेव जहौ निजाम्बो वेलामिव क्षीरनिधेः सुधांशुः । अध्यैष्ट यः पालनके शयानोऽप्येकादशाङ्गीः स्मृतपूर्वजन्मा ॥५२॥ यः पुष्पदः पल्लवलीलयेव वैराग्यलक्ष्म्यालमकारिबाल्ये। प्राग्जन्ममित्रात्रिदशानभोगविद्या पुनर्वैकिलब्धिमापत् ॥५३॥ दुर्भिक्षवर्षेषु सुभिक्षभूमी संघ कृपानीरनिधेनिनीषोः ।
25 वनप्रमोर्यस्य पटः पटीयान्विमानवद्वयोमनि दीप्यतेस्म ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org