________________
श्रीमन्महावीरपट्टपरम्परा श्रीस्थूलभद्रेण निजान्ववायस्रोतस्विनीनायककौस्तुभेन । विश्वत्रयी तयशसेव शोभामलम्भि तत्पट्टपयोधिपुत्री ॥३१॥ प्रवालमुक्तामणिमञ्जिमश्रीचित्राप्सरःस्खरिदाश्वदृश्यम् । कोशागृहं प्रावृषि यः सिषेवे हरिर्घनच्छायमिवाम्बुराशिम् ॥३२॥ पण्यांगनायाः किलकिश्चितानि न लेमिरे यस्य हृदि प्रवेशम् । धनुर्भूतः सानुमतः शिलायां पृषत्कपंक्तेः प्रहृतानि यद्वत् ॥३३॥ प्रानिर्जितश्रीरथनेमिमुख्यवीरावलीनामिव वैरशुद्धेः। विधित्सयाध्यास्य तदाश्रयं यो ध्यानासिनाऽनङ्गनृपं जघान ॥३४॥ चक्रीव रत्नानि चतुर्दशापि पूर्वाणि धत्ते स्म पतिर्यतीनाम् । यश्च कचिद्देवकुले स्वजामीश्चित्रीयितु सत्य इवास सिंहः ॥३५॥ 10 येनोपदेशच्छलतः स्वपाणिसंज्ञाज्ञया स्तम्भतलाददर्शि । निधिः स्वनिक्षिप्त इव प्रवासिसुहृद्गृहिण्याः सदने समेत्य ॥३६॥ पट्टऽथ तस्यार्यमहागिरिश्चापरः क्रमादार्यसुहस्तिसूरिः। बभूवतुर्धर्मधुरं दधानौ रथे यथासारथिकस्य रथ्यौ ॥३७॥ मरुद्गृहादार्यसुहस्तिमूर्तिभूमौ मरुवृक्ष इवोत्ततार ।
15 कृपार्णवेन द्रमकोऽपि येन त्रिखण्डभूमीप्रभुतामलम्मि ॥३८॥ भूसुभ्रुवो भर्तृ तया प्रगल्भभूषाविशेषानिव शातकौम्भान् । सपादलक्षानिह संप्रतिर्यो निर्मापयामास महाविहारान् ॥३९।। यः सम्प्रतिक्षोणिपतिः सपादकोटीर्नु पेटीः स्वयशोनिधीनाम् । स्याद्वादिनां सद्मसु शिल्पिसंधैरचीकरत्पारगतीयमूर्तीः ॥४०॥ नक्तं नलिन्यादि(सु)गुल्मनामविमानमार्गः प्रभुणाःच येन । स्नेहप्रियेणेव महेभ्यसूनोरदय॑वन्तीसुकुमालनाम्नः ॥ ४१ ॥
३१-निजः स्वकीयो यो'नागरनामा ब्राह्मणवंशः स एवं'स्रोतस्विनीनायकः नदीपतिः समुद्रः तत्र कौस्तुभेन । इतिदाख्यायो ।
३५-यक्षा, यदिशा, भूता, भूतदिखा, सेना, वेना, रेणा। क्वचिदेणापि:नामद्वंदम् । एतबाम्नीः स्वजामीः सप्तापि निजभगिनी. इति तवृत्तौ ॥
201
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org