SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०० पट्टावली - समुच्चयः संकरेण रात्रिंदिवातीतविमानोपमानतायामुपनतायां जगति सुसीमताकारिशमैकसाम्राज्य विजयमाने तत्र न तापनकरप्रचार इतीव सहस्रकरकरेषु भूमिस्पृशत्सु विविधधवलगानश्रवणैकाग्यू रेग चित्रतुल्यनिश्चलनरामरोरगैः शोभितेषु पटकुटेषु विश्वविश्रान्तिसश्रान्तिशारदाभ्रपटलेषु इव अत्युञ्चमण्डपेषु सिंहासने श्रीविजयप्रभसूरिं निवेश्य भगवान् स्वयं स्वतु- 5 ल्यताज्ञापनार्थं पुरः स्थित्वा सुमुहूर्ते वन्दनकानि दत्तवान् । जातश्च महान प्रमोदः । तदनुसर्व संघसमक्षं श्रीपरमगुरुणाभाणि - " यथाहंतथाऽयम्, सर्वसंघेन सेवनीयः संसारसागरे प्रवरणमयं कदापि न मोक्तव्यः " । , 10 ततः कृतसंस्कारो मणिरिव, घननिर्मुक्तः सूर्य इव, श्रहुत्युद्दीपितः पावक इव, भावप्रतिबिम्बनाद्दर्पण इव, प्रोक्षलितः कनककलश इव, तैलापूर्ण: प्रदीप इव, कृतालंकारः क्षितिपतिरिव, घननिधतः कनकगिरिरिव, शोधितो ग्रन्थ इव, अधिकं संजातवन्दनकोत्सव परिकर्मा स श्रीविजयप्रभसूरिर्भूरितेजसा दिदीपे । तदा सा० श्रीधनजीनाम्नाष्टसहस्रमहमूदिकानां यशोबीजानामिव प्रभावना चक्रे । सर्वसंघपरिधापनिका च । ततश्चैकं चतुर्मासकं अहम्म- 15 दपुरे विधाय श्रीपरमगुरुभिः सहैव श्रीविजयप्रभसूरि युगादिदेवयात्रां द्वीपवास्तव्य भणसालीयसा ० रायचन्द्रप्रमुखसंघेन सह वि 'नालोच्य सुराष्ट्रासंघाग्रहेण श्री उन्नतपुरमलंचक्रे । क्रमेण देवशयनैकादश्यां विजयप्रभसूरिभिः कृतनिर्या - 20 मनाविधयः श्रीविजयदेवसूरयः स्वर्जग्मुः । ततः श्रीवीरनिर्वृते श्रीगौतमस्वामी श्रीपरमगुरौ स्वर्गतेऽत्यन्तदुःखावेशवशात् श्रीविजयप्रभुरपि कतिचिहिनानि विमनस्कतया निन्ये । तदनु चतुर्विधसंघाग्रहेण संसारस्वभावमनुभाव्य विगतशोकाः सुमुहूर्ते श्रीविजयप्रभसूरिपादाः भट्टारकपदोद्भूतशोभाप्राग्भारभासुराः 25 श्रीगुरुपट्ट विभूषयामासुः । तद्दिन एव शिवपुरीदेशे यतीनां विहारस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy