________________
तपागच्छ-पट्टावली प्राग्वर्षद्वयं यावनिषेधस्य मुक्तलता जाता, तद्वर्द्धनिका आगता । तद्वर्षे च श्रीद्वीपवास्तव्यसा० नेमीदासनाम्ना अष्ठसहस्रमहमूंदिकाव्ययेन श्रीगुरून् । सार्धमादाय श्रीशत्रुञ्जयतीर्थयात्रासंघो महान् चक्रे ।
___ एवं श्रीगुरुभिः सुराष्ट्रायां चतुर्मासकदशकं चक्रे। तत्प्रभावात् सं०. १७१५ सं०१७१७सं०१७२०वर्षसत्कास्त्रयोऽपि दुष्कालाः सुराष्ट्रादेशे न 5 प्रसारमापुः । तच्चिह्न तु जीर्णदुर्गादिषु गूर्जरत्रायां धान्यागमनं प्रतीतमेव। स०५७२३वर्षे घोघाबन्दिरे श्रीजसूनाम्न्या कारितानेकजिनप्रतिमानां श्रीसूरिमिः प्रतिष्ठा चक्रे।
एषु च श्रीगुरुषु विपक्षभावमावहन्तः केचिद्वालिशाः स्वत एव लोकापवादविडम्बिता अधुना दृश्यन्ते । ततः श्रीअहम्मदाबादनगरसंघा- 10 प्रहेण श्रीगुरुवो गूर्जरत्रायामाजग्मुः । तत्प्रभावाल्लोकानां सुभिक्षेण महान्हर्षो बभूव । इत्यादि परमर्षीणां एषां महिमा प्रकट एव ॥ तेन निश्चीयते-एतदाज्ञावर्तित्वमेव उभयथापि शिवाय ।
सिरिविजयरयणसूरि पमुहेहि गसाहुवग्गहि परिकलिआ पुहविअले, सरिवरा दिन्त में भदं ॥४॥२४॥ 15
श्रीगूर्जरमरुमालवमेदपाटमेवातकच्छइल्लारमुराष्ट्रादक्षिणादिदेशेषु श्रीगुरुतपस्तेजसा सांप्रतं धर्मकर्माणि निरन्तराय जायन्त इति
सोऽयं वीरपरंपराप्रणयिनीप्राणप्रियः सक्रियः। जीयात् श्रीतपगच्छपः सुरवरैः संसेव्यमानक्रमः । नाम्ना वीर इति क्षमाधरवरप्रोनितनृत्यक्रियः। प्रत्यक्ष विजयप्रभो गणपतिः श्रीवर्धमानप्रमः ॥१॥ श्रीवीरतीयाति कलब्धराज्यः, श्रीवर्धमानेन कृतोत्सवश्रीः । देवाभियुक्तोऽभिधयापि वीरः, श्रीवीरतोर्थे गुरुरेष जीयात् ॥२॥ श्रीविजयप्रभसूरे-रुपासकः श्रीकृपादिविजयानाम्। विदुषां शिष्यो मेघः, संबन्धमिमं लिलेख मुदा ॥३॥
25 इति श्रीपट्टावलिसूत्रोपरिक्षिप्तगाथात्रयविवरणं संपूर्णम् ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org