________________
पट्टावली-समुच्चयः तेषामपि दर्शनीयं मुखं यस्य स तथा । इत्यत्रार्थे त्रिजगद्वन्द्यत्वं भगवतो दर्शितम् । पुनः किं विशिष्टम् ? अनुपमः अतुल्यः । एतेनास्य सूरेः सर्वसूरिभ्यो धैर्यौदार्यगाम्भीर्यसौभाग्यतानिस्तन्द्रतापाण्डित्यक्षमादिगुणानामधिकता ज्ञाप्यते ।
अस्य च प्रभोः सं० १६३७ वर्षे माघसितएकादश्या श्रीकच्छदेशे 5 श्रीमनोहरपुरे वृद्धोपकेशवंशघोषागोत्रभृत सा० सिवगणमा भानुमतीगृहे जन्म । सं० १६८६ वर्षे दीक्षा । सं०१७०१ वर्षे पन्यासपदं । सं०१७१० वर्षे आचार्यपदं । सं १७१३ वर्षे भट्टारकपदं । ते चामी श्रीगुरुपादाः सांप्रतमपि प्रत्यक्ष्यलक्ष्यलक्षप्रभावा नितरां ज्ञानाभ्यासपुस्तकशोधनानेकभव्यजनविबोधनविविधक्रियामग्नमनसो दुस्तपस्तपननिर्जीयमाणतमसो 10 गच्छस्य स्मारणवारणादिविधाभिरधिकश्रियं पुष्णन्तःसत्यसंधाः कल्पान्तेऽप्यविचलवाचः स्वप्रतिपन्नगच्छगीतार्थसंघाभ्युदयदायिनो विजयन्ते ।
___ एतेषां महिमातिमहान कार्येन वर्णयितु शक्यः । तथापि किञ्चिदुच्यते
एकस्मिन् समये परमगुरुतपागच्छाधिपाः श्रीविजयदेवसूरयः स्वा- 15 मिनो जिनशासनपट्टपरंपराप्रवाहं प्रवर्धयितु श्रीसूरिमन्त्रेण ध्यानं चक्रुः । यदस्मदने कः शासनाधिनाथो भविष्यतीति । तदा च प्रवर्धमानतपःपूर्वकजपावधानाकृष्टो मंत्राधिराजाधिष्टायको देशेऽभ्येत्य नमस्कूर्वन विज्ञप्तवान् 'स्वामिन्नद्यापि शासनाधीशितुर्न दीक्षापि प्रवृत्ता, भगवतामपि युष्माकं चिरायुष्कता तत्किमनया चिन्तयाधुना ? समये च स्वल्पेनापि तपसाहं स्म- 20 रणीयः, तदैवागत्य वक्ष्यामि' इत्युक्त्वा सुरस्तिरो बभूव ।। ___कालान्तरे च स्वकीयपट्टे श्रीजिनशासनस्वामिस्थापनावसरं निभाल्य श्रीगन्धपुरे गत्वा श्रीगुरुभिर्ध्यानं प्रारेभे। तदा तत्क्षणादेव मंत्रराजाधिष्ठायको देवः समेत्य निवेदितवान् - "हे स्वामिनः ! पण्डितः श्रीवीरविजयनामा सौभाग्यनिधिः विद्यामहोदधिः निरुपधिः चारित्रगुणानामवधिः 25 अजिब्रह्मविधिः विधिरिव सा 'भुवनोपकारकः केशव इव पुरुषोत्तमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org