________________
९७
10
तपागच्छ पट्टावली देवसान्निध्यं चैषां स्फुटमेव मण्डपाचलप्रस्थाने कमाख्यपरमारस्य भूतार्तस्य लोकानां मारणात्पित्रा निगडितस्य श्रीगुरुवासक्षेपेण सज्जीभवनात् , एवं राजनगरवास्तव्यवणिक्पुत्रोऽपि सप्तवर्षाणि प्राग्रथिलः सोऽपि, तथा मेडतानगरे सा० थानाख्यक्षेत्रपालाधिष्ठितश्च वासक्षेपात्प्रादुर्बभूव ।
एवं चैते भगवन्तः स्वविहारेण गूर्जरत्रासुराष्ट्राहल्लारमरुमेदपाटला- 5 टदक्षिणादेशेषु धर्मबीजानि वपन्तः तद्देशसुभिक्षादिभवनेन स्फुटतरयुगप्रधानातिशयाः शुद्धाशयाश्चिरं भरतभुवि प्रवचनं प्रभावयामासुः । समये च निजायुःशेषं वर्षचतुष्टयं ज्ञात्वा सं० १७१० वर्षे स्वपट्टे श्रीवैशाखसित दशम्यां श्रीविजयप्रभसूरीन् स्थापयामासुः ।
तव्यतिकरस्त्वनन्तरमेव वक्ष्यते। "सिरिविजयदेवपट्टी, पढम जानो गुरू विजयसीहो।
सग्गगए तम्मि गुरू-पट्ट विजयप्पहो सूरी ॥१३॥ इति गाथार्थः तत्पटेंबुजपहकर-सरिसो हरि सेण दरिसणिज्जमुहो। [तत्पटुंबुजपहकर-सरिसो सिरिविजयसिंह दिव्वगुरू] इगसहियमोऽणुवो, विजयप्पहणाम गच्छगुरू ॥३॥२३॥ 15
व्याख्या-"तप्पटेंबुज" इति, तस्य श्रीविजयदेवगुरोः पट्टलक्षणे . अम्बुजे, प्रकाशकत्वात्प्रभाकरः सूर्यः, तत्सदृशस्तुल्यः । एकोत्तरषष्ठितमः श्रीविजयनामा गच्छगुरुर्भगवान् सूरिविजयवान् । किं विशिष्टः ? 'हरिसेण' हर्षेण दर्शनीयमुखः । इत्यनेनास्य नित्यप्रसन्नता ख्यापिता । तया चास्य भगवतो भाग्यविस्फूर्जितस्य नित्योदयत्वं प्रशान्तत्वं च ध्वन्यते । 20 कुपाक्षिकानां प्रत्यर्थिनां मनसाप्येतस्य गुरोरहितचिन्तकानां स्वत एव नाशात् । घनस्याभ्युदये शरभानामिव । यद्वा हरिः कृष्णः सेनाया यस्य स हरिसेनो देवानामिन्द्रः । 'सेनासे भवदिमानवदानवारि-वासेन यस्य जनिता सुरभी रणश्रीः।' इति नैषधीयकाव्यवचनात् । एवं हरिशब्दस्य तुरगगजाद्यर्थे,हरिसेनाः नृपाः। अहीनामर्थे धरणेन्द्राद्या नागकुमारा प्रायाः । 25 . १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org