________________
पट्टावली-समुचयः इतश्च श्रीविजयसिंहसूरयोऽपि गुर्वाज्ञया मरुमेवातमेदपाटादौ विहृत्य राणाश्रीजगत्सिंहजीनामानं प्रबोध्य विशेषतो जीवदयासु देशस्थित जैनतीर्थेषु सप्तदशभेदपूजाकरणोपदेशादिभिश्च दृढीकृत्य श्रीजिनधर्म प्रभावयन्तः । श्रीमरुदेशे एका प्रतिष्ठां,मेरुतानगरे आगरावास्तव्यपातिशाहिरत्नव्यवहारिमुख्यसा हीरानन्दभार्यया श्राविकामनीत्यभिधानवत्या कारिता निर्माय, श्रीकृष्णदुर्गे राठौरवंशीयश्रीरूपसिंहमहाराजस्य महामात्यश्रीरायचन्द्रनाम्नोऽत्याग्रहाचतुर्मासकं चक्रुः तत्पारणके सहस्रशो रूप्यकव्ययेन मन्त्रिणा कारितप्रतिष्ठाया बहूनि बिम्बानि जिनानां महतोत्सवेन प्रत्यतिष्ठपन्
तत्रैव आहूणपुरादागतेन श्रीमहेशदासमन्त्रिश्रीसुगुणाह्वयेन बहुवित्तव्ययपूर्व सुवर्णमुद्रा_दिना महोत्सवेन श्रीगुरवो वन्दिताः । ततः क्रमान्मा- 10 ल्यपुरबुन्दीचत (व) लेरपार्श्वप्रमुखतीर्थयात्रा संघेन सह कुर्वन्तः श्रीजयतारणिनगरे चतुर्मासी विधाय श्रीस्वर्णगिरौ यात्रा कृत्वा क्रमात् श्रीअहम्मदावादनगरे श्रीगुरून्नेमुः।
तैः सहिताः श्रीपरमगुरवः सं० १७०५ वर्षे श्रोइलादुर्गे पत्तनवास्तव्यश्रा०श्रीवन्त्याकारितां प्रतिष्ठां विदधुः । तत्र चतुःषष्ठिविबुधेन्द्रान्देवसूरय इव 15 स्थापयामासुः । क्रमेण पत्तनराजनगरादिषु चतुर्मासककरणेन लोकाननुगृह्य स्तंभतीर्थे चतुमास्यां तस्थुः।
श्रीविजयसिंहसूरीणां सं० १६४४ वर्षे जन्म, सं . १६५४ व्रतं, सं० १६७२ वाचकपदं, सं० १६८१ सूरिपदं, ते सूरयः परमक्षमापात्रं यावजीवं गुर्वाज्ञाराधकाः विवेकाधनेकगुणधयो ऽष्टाविंशतिवर्षाणि 20 सूरिपदं प्रपाल्य सर्वातीचारालोचनपूर्वमनशनेन सं० १७०८ वर्षे अहम्मदावादपार्श्वस्थनवीनपुरे आषाढसितद्वितीयायां श्रीविजयसिंहसूरयः स्वर्जग्मुः ।
तत् श्रावणाभृशं दुःखार्ताः परमगुरवोऽपि संसारानित्यतां विमृश्य क्रमाद्विगतशोका बभूवुः ।
एषां च श्री गुरूणां तपस्तेजसा देवकृतसान्निध्येन च निरन्तरायतया 25 भूयांसस्तीर्थयात्रासंघाः साडम्बराः श्रीशत्रुज्जयादितीर्थेषु जीर्णोद्धाराश्च जाताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org