SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तपागच्च-पट्टावली शकृत्य स्वपाक्षिकगीतार्थानाहूय वादः प्रारम्भितः । श्रीगुरुभिरपि सागरमतप्ररूपणा उत्सूत्रत्वान्न सत्येति प्रामाणिकपर्षदि राजसमक्षं गीतार्थाननुज्ञाप्य बादेन सागरपाक्षिकॉस्तिरस्कारयांचक्रिरे । ततो लब्धजयवादाः श्रीगुरुपादाः सप्रसादाऽवनिनायकेन सम्मानिताः परे च पराभवं प्रापिता इति । ततो दक्षिणादेशे विहृतवन्तः । तत्र बीजापुरेऽन्तरां चतुमसकचतु- 5 ष्टयीं चक्रुः । तदा श्रीगुरुपादतपोमाहात्म्यप्रसरद्यशःपरिमलानुभवनेन तत्रत्यपातिसाहिश्रीईदलसाहिर्दर्शनोत्सुकः श्रीगुरूनाहूय सबहुमानं धर्मस्वरूपं पप्रच्छ । ततः श्री.गुरूणां वचःपीयूषमासाद्य मायन्मना यावद्गुरुस्थिति गोवधनिषेधं प्रपन्नवान् जिनप्रवचनमानंदमेदुरं स्फातिमायाति स्म । पारणायां च बीजापुराउनेकनगरसंघेनान्वीयमानाः श्रीगुरवः पयो- 10 धितटनिकटस्थ श्रीकरहेडपार्श्वनाथ-श्रीकलिकुण्डपार्श्वनाथादितीर्थयात्रां कुर्वाणास्तत्तद्देशराजप्रभृतीन लोकान् धर्मे स्थापयांचक्रुः । . ततश्चाऽवरंगाबादनगरे चतुर्मासकमेकं सोत्सवं विधाय खानदेशे बर्हानपुरे चतुर्मासकद्वयं सान्तरं चक्रुः । ततः प्रचलय्य संघेन सह श्रीअन्तरीकपार्श्वश्रीमाणिक्यस्वामितीर्थयात्रा सृजन्तस्तिलिङ्गदेशेगलकुण्डप्रत्यासमभाग्य15 नगरे पातिसाहिश्रीकुतबसाहिना संगत्य तत्सभायां तैलिङ्गभट्टान्वादे विजित्य जैनधर्मव्यवस्थापनया श्रीपातिसाहिं प्रमोदितवन्तस्तद्वशानुशाश्च । तत्राईत्प्र. तिमानामने कासां प्रतिष्ठां चक्रुः । एवं च विविधोत्सवैः प्रतिपदं राजप्रबोधादिना सर्वत्र दक्षिणामण्डले विहत्य प्रतिष्ठासप्तकं चतुर्मासकसप्तकं च करवा श्रीमजिनशासनमयं तन्मएडलं विदधुः। 20 बीजापुरे सा० देवचंद्रेण प्रथम प्रतिष्ठा कारिता । तत्र षोडशसहस्त्ररूप्यकव्ययश्चक्रे । द्वितीयस्या प्रतिष्ठायामष्टसहलीरूप्यकव्ययश्च । तत्र पंडित श्रीवीरविजयानां सं० १७०१ वर्षे पन्यासपदं ददुः । दक्षिणामएडले च सर्वाणि अशीतिपण्डितपदानि, एकमुपाध्यायपदं च प्रसादितवन्तः। ततः पुनः संघामहात् गर्जरी श्रीगुरवः पवित्रीचक्रुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy