SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । वज्रासनाद्यासनसंविधानस्त्वगादिभिर्भेषजसञ्चयैर्वा । सीमन्तिनीदर्शनवर्जनाद् वा प्रणीतभोज्योज्झनतोऽपि योगी॥११७॥ निद्राजयध्यानविधानतोऽपि ब्रह्मानधं ब्रह्मकृते विदध्यात् । समीहितार्थाः प्रभवन्ति यस्माद् द्रुमा इवाम्भोधरवारिपूरात् ॥११८॥ युग्मम् । किं चेष्टाभिरिहासनैः किमु तपोजाणैस्तु किं सेवया किं होमेन किमम्बरेण कुसुमैः किं किं सुभोगैरिति । एकं सुस्थिरमानसे तु विसतं ब्रह्मत्रतं कारणं सिद्धीनामिह मन्त्रयन्त्रविधयो मोघा यदेकं विना ॥११९॥ सीमन्तो वनिताशिरःसु पदवी सीमन्तकस्य स्फुटं बाला व्यालनिभा सुदुर्गतिपदानेतृणि नेत्राण्यपि । यासां भ्ररुरगोव कालकुटिला मोक्षाध्वसंरोधकृद् यद्देहं मलगेहमेव मनसि ध्यात्वेति नारी त्यज ॥१२०॥ इति ब्रह्मवतधारणम् । नो दाक्षिण्यवशान्न लोभवशतो नो वा भयात् स्नेहतो __ नो कस्मायतिविस्मयार्थजनको मन्त्राधिराजः प्रभुः । देयः किन्तु परीक्ष्य मास........षटै सुचित्तं नतेगाम्भीर्य च कलादिकं च सुगुरुः शिष्याय यत्नादसौ ॥१२१॥ मन्त्राधिराजजिनभर्तुरमर्त्यमर्त्य नागेन्द्रचन्द्रकमठासुरसेवितस्य ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy