________________
૨૮૬
श्रीजैनस्तोत्रसन्दोहे
[ श्रीसागरचन्द्र
सेवा लतावत् फलशालिनी ते सेवा भवाभव्यमयी नयस्व । स्तृणाति ते ध्यानसरो विशालं पिपासिनां संसृतितापहारम् ॥ १११ ॥ संसारकान्तारचिरप्रचारनिवारणे कारणमामनन्ति । त्वामेकमेवेति नमामि तेऽङ्घ्री भक्त्या तव भ्रान्तिहराबुदारौ ॥ ११२ ॥ श्रीवामेय ! गुणैरमेयमहिमा किं मादृशेनामुना
वाणीगोचरमत्र तत्रभवतः स्वा नीयते ते विभो ! । सर्वज्ञ ! स्मरणस्तवार्चननतिध्यानप्रभावोद्यते
मूको जल्पति संशृणोति बधिरः पङ्गर्नरीनृत्यति ॥११३॥
वन्दे पार्श्वजिनं प्रभावसदनं विश्वत्रयीपावनं
श्रेयोवृक्षवनं नतामरजनं सम्फुल्लपद्मासनम् । सिद्धेः संवननं मदद्द्रदहनं श्रद्धामयूरीघनं
विघ्नालीशमनं खवाजिदमनं संसारनिर्नाशनम् ॥ ११४ ॥
जम्बूद्वीपसरः सरोरुहसमुल्लासाय मानामर
क्षोणीभृद्धरविष्ठर स्थिरतरं यत्तिष्ठते प्रष्टमम् ( विष्टपम् ? ) ।
यत्तत्रास्ति भुजङ्गपुङ्गबफणारत्नप्रभाभासुरः
श्रीमत्पार्श्वजिनेश्वरः स्वरसतस्तस्य स्तुतिः प्रस्तुता ॥ ११५ ॥ त्रिसन्ध्यं सन्धत्ते मनसि विशदां यः स्तुतिमिमाममानध्यान श्रीप्रणयपरिणद्धप्रणतिभिः ।
श्रियो देवादीनामपि च स समासाद्य विभुतां धुतान्तः कर्मैौघः प्रणयति शिवश्रीप्रणयिताम्
॥१.१६॥
इति स्तवनम् ।