________________
सूरिविरचितः ]
श्रीमन्त्राधिराजकल्पः ।
-AR
अपदद्विपदचतुःपदजनपदवशतां क्शार्थिनां सततम् । अभिजातिजने निधनं स्तम्भनमथ मोहनं सुमहत् ॥१०३।। ऋद्धिं बुद्धिं सिद्धि मतिं गतिं संस्मृति जने प्रीतिम् । कीर्ति स्फूर्तिमनत्ति दत्ते वामासुतो ध्यातः ॥१०४॥कुलकम्।
इतिभाववर्णनम् । मन्त्राधिराज ! जिनराज ! तव प्रसादा
दासादयन्ति यदिहाभिमतानि भव्याः । चित्रं किमत्र सुरमानवसर्पनाथ
सम्प्रार्थितं निजपदं हि यतो ददाति ॥ ॥१०५il वामेय ! वाक्पतिमतिप्रकरोर्जितोऽपि ___ को वक्तुमत्रभवतोऽतिशयान् प्रगल्भः । यस्य प्रसादलवतोऽप्यचिरात् प्रसूते
___ वन्ध्या तनूजमपि पश्यति नेत्रहीन: ॥१०६॥ देवाधिदेवाद्मिसरोजसेवाहेवाकमेवाकलयामि तेऽहम् ।। तदस्मि हंसः सुगतिप्रशंसोऽसत्सजलक्षीरविवेकमिच्छुः ॥१०७॥ त्वद्ध्यानसन्धानसुधानिपानपानान्न दीनाऽऽननतां भजन्ते।। कीनाशसेनां सगदां विजित्य मृत्युञ्जितो यान्ति शिवालयं ते॥१०८॥ सौभाग्यमारोग्यमवन्ध्यभाग्यं श्रीकीर्तिविस्फूर्तिमनार्तिमन्तः । अत्रापि मन्त्रस्मरणाल्लभन्ते सद्यः समुधद्वरभक्तिभाजः ॥१०॥ त्वदङ्गसङ्गद्युतियामुनाम्भः स्नानेऽपि गङ्गाजलवद् विशुद्धाः । चकासति त्वां समुपासते ये प्रभो ! प्रभूणां महिमा महीयान् ॥११०॥