SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्र भूतप्रेतपिशाचग्रहमुद्गलखेचराः सवैतालाः फणिनो दुर्जननिवहास्तमभिद्रोतुं न शक्ताश्च ॥९॥ इति प्रभावः । यचेतः शंशान्तं करणगणो येन चाथ दंदान्तः । तन्तान्तं पुण्यमितो चचान्तं तेन सिद्धिसुखम् ॥९५॥ मन्त्राधिराजजिनपतिचरणाम्बुजसेवनात् सततमेव ।। ज्वरवातसन्निपातश्लेष्माद्याः शामयन्ति गदाः ॥९६॥ शाकिन्यो यक्षिण्यः कुष्माण्डिन्यो जलादिवासिन्यः । वनवासिन्योऽथ नभोगामिन्योऽरण्यचारिण्यः ॥९७॥ रेवत्यः क्षेत्रभवाः प्रामभवाः शैलकोद्भवाश्चापि । जप्ताक्षतकणनिकराज् झटिति विमुञ्चन्ति देवताः पात्रम् ॥९८॥ युग्मम् । नित्यध्यानविधानाद् विधिना सिद्धयन्ति सिद्धयोऽष्टौ हि । दहनसमीरणसलिलस्तम्भनमपि चिन्तितः कुरुते ॥ ९९ ॥ दौर्भाग्योपहतानां सौभाग्यं रोगिणां तथाऽऽरोग्यम् । सन्ततिमपपुत्राणां मृतवत्सानां सजीवसन्ततिताम् ॥१०॥ विजयार्थिनां तु विजयं धनार्थिनामिह महद् विभवम् । जायार्थिनां तु जायां नियोगिनां विज्ञपतिनि योगम् ॥१०॥ निजदेशभ्रष्टानां भूमिपतीनां च भूमिलाभं च । विद्यार्थिनां तु विद्यां बहुपुत्रान् पुत्रकाम्यानाम् ॥१०२॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy