________________
MarvAvM
श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्रप्रत्यङ्गिरादिनवकल्पसहोदरोऽयं
कल्पस्तु पञ्चपटलः सकलार्थदोऽस्तु ॥१२२॥ नेत्रानन्दकरस्तमस्ततिहरः सल्लोकपद्माकर
श्रेणीघस्रकरः सुरासुरनरप्रत्यूहभिद् विद्धरः । संसारच्छिदुरप्रतापनिकरः सर्वश्रियामाकरः ।
श्रीमद्भोगिवरश्रितो जिनवरः स स्यात् प्रसादे परः॥१२३॥ शश्वत्श्रीप्रभ कर्मवृक्षपटलीनेमिप्रभ ! प्रोल्लस
च्छान्तिश्रीललितप्रभामलविभाप्रोद्भाव ! देवर्नत।। श्रीसर्वज्ञ ! सुपुण्यसागरपरिस्फूर्जद्यशश्चन्द्रमः । सूरिप्रस्तुत ! सिद्धिबुद्धिसहित! त्वं देहि मे मङ्गलम् ॥१२॥
इति श्रीषट्कर्मद्रव्यसमुदयाष्टकर्ममन्त्रोद्धार
नाम पश्चमः पटलः ।। ५ ।।
सर्वसङ्ख्या ६२९ समाप्तोऽयं श्रीसागरचन्द्रसूरिविरचितो मन्त्राधिराजकल्पः ।।