________________
२५६
श्री जैनस्तोत्र सन्दोहे [ श्रीनगर
त्रैलोक्यख्यातवर्णस्तपन इव समस्तोमहत नितानं
विस्फूर्जबिन्दुनादौ निजपरशिरसीकारमात्तस्तु सज्जौ । एतद् यन्त्रं समस्तं क्षितिवलयमिवाम्भोनिधिं व्याप्य सिद्धो मायावर्णाभिधानः स्थित इति सततं योगिभिर्ध्याय एव ॥ ९४ ॥ इति मायावर्णः ।
एतद् यन्त्रं बहिः पीठे यद् धरायां व्यवस्थितम् । न तस्याराधकाः सूत्रयन्ति यतो भणाम्यहम् ॥ ९५ ॥ एकचक्ररथ उष्णमयूषः सप्तसाप्तरिह पङ्कजहस्तः । सेवतेऽरुणरुचिः शुचिचेताः पार्श्वनाथपदपङ्कजमर्कः ॥ ९६ ॥ क्षीरसागरतरङ्गसमाङ्गः श्वेतवाजिदशकस्तु शशाङ्कः ! । सर्वदा जिनपतिक्रमसेवासङ्गि मानसमसावपि धत्ते ॥ ९७ ॥ मङ्गलोऽयमथ हिङ्गुलवर्ण: शक्तिपाणिरिह मङ्गलहेतुः । भक्तियुक्तिपरिभावितचित्तः सेवते क्रमयुगं जिनभर्तुः ॥ ९८ ॥
बाणबाणधिशराशनपाणी रोहिणीरमणसंहत्त एषः । नीलहरुचिरस्य जिनस्य पादसेवनविधिं विदधाति ॥ ९९ ॥
स्वर्णकेतकसमानशरीरो बाक्पतिर्जिनपतिस्तुतिकारी । निर्जितामर मलि (?) लहरीभिस्तर्जितामृतरसोत्तमगीर्भिः ॥ १०० ॥ भागर्वोऽसुरविताननताङ्घ्रिः क्षीरनीरनिधिगौरशरीरः । सेवते क्रमयुगं जितभर्तुरश्वसेनकुलपङ्कजभानोः ॥ १०१ ॥ दण्डदीधितिसुतोऽपि सुचेतो दुःखनीरनिधितीरगमाय सबसे जिमप्रति बत धूमस्तोमकान्तिरिह दण्डधरश्च ॥ १०२ ॥