________________
सूरिविरचितः ] श्री मन्त्राधिराजकल्पः ।
मधुतिः कलविनीत महोत्पलाङ्कः पञ्चेन्दुकार्मुक तनुर्मिथिलापुरीस्थ: ।
वप्राभवो विजयभूपतिलब्धजन्मा
स्याच्छान्तये नमिजिनो भविनां तु नाम ॥ ८९ ॥
श्रीमत्समुद्रविजयात्मज ! शङ्खचिन्ह !
कृष्णाङ्ग ! चापदशकोचतनो ! मतो नः ! श्रीमच्छिवाभव ! भवाघभवाधिहीनं
श्रीनेमिनाथ ! कुरु शौर्यपुरावतंस ! ॥ ९० ॥
સ્વર
वाराणसीपुरजने ! कदलीदलाभ !
सर्पाङ्क ! हस्तनवकोञ्चशरीर ! धीर । । श्री अश्वसेनकुलपङ्कजराजहंस !
वामातनूज ! जय मोक्षद ! पार्श्वनाथ ! ॥ ९१ ॥ सिद्धार्थपार्थिवभव ! त्रिशलातनूज !
मधु ! हि भुजसप्ततनुप्रमाण ! ।
कण्ठीरवप्रकटलाञ्छन ! वाञ्छितार्थ
श्रीवर्द्धमान ! मम देहि विमानमाय ! ॥ ९२ ॥ यश्चित्ते मुदितेऽवसोय सुपदद्वन्द्वं विधत्ते शिवं
शश्वद्वासनया प्रज्पदायो ( ? ) माय: सुकायः पुमान् । एते वोतमदाः सदा दिविषदां वृन्देन ये वन्दिताः
सानन्दं शिवसम्पदं शमदयावन्तोऽस्य दद्युर्जिनाः ॥९३॥ इति जिना ।