________________
श्रीजनस्तोत्रसन्दोहे [श्रीसागरचन्द्रसजातरूपवररूपधरो मृगाङ्कः ।
श्रीविश्वसेननृपभूरचिरातनूजः । व्योमान्धिचापतनु-हस्तिपुरात्तजन्मा
शान्ति तनोतुं भविनामिह शान्तिनाथः ॥ ८४ ॥ श्रीसम्भवो गजपुरप्रतिलब्धजन्मा
___ हेमद्युतिः शरकृशानुधनुःप्रमाणः । यः छागलाञ्छनधरो नृपशूरजातो
देवो व्यपोहेतु तमो मम कुन्थुनाथः ॥ ८५ ॥ त्रिंशद्धनुस्ततवपुः कनकाभ ! नन्दा
वर्ताङ्क ! नागपुरसम्भव ! देववन्ध !। देवीहृदम्बुजरवे ! च सुदर्शनाङ्ग
जातारनाथ ! घननाथभवारिमारे ॥ ८६ ॥ श्रीमल्लिनाथ ! कदलीदल नीलदेह !
पञ्चद्विकार्मुकतनो ! नृपकुम्भपुत्र!। श्रीमत्प्रभावतिजने ! मिथिलापुरीज !
कुम्भाङ्क ! भाविनरनेन्तरमर्त्यजन्म (?) ॥८॥ तैलाक्तकज्जलकेलवर ! कूर्मचिन्ह !
त्रिंशद्धनुस्तनुविमान ! सुमित्रसूनो! । पमावतीप्रभव! राजगृहाप्तजन्मा
जन्माघसङ्घमपिघातय सुव्रताईन् ! ॥ ८८॥