________________
चिरिचितः]
श्रीमम्बधिराजकल्पः ।
उत्तप्तहेमरुचिभदिलपूः सुजन्मा
__ श्रीशीतलोऽवतु जनं किल शीतशीलः ।। ७८ ॥ श्रेयांस एष कलधोतसमो ह्यशीति
चापोच्चदेह इह गण्डकलाञ्छनस्तु । श्रीविष्णुभूमिपतिविष्णुवधूतनूजः
श्रेयांसि यच्छतु सुसिंहपुराधिजन्मा ॥ ७९ ॥ रक्तप्रभो महिषलाञ्छनलाञ्छिताङ्ग
श्चम्पाजनिस्त्वथ जयाचसुपूज्यपुत्रः। यश्चापसप्ततितनुप्रमितिमतानि
श्रीवासुपूज्यजिन एष सलां ददातु ॥ ८ ॥ श्यामाभवो ह्यनिभृत्कृतवर्मपुत्रः
काम्पिल्यपत्तनज़निः कनकावदातः । कोदण्डषष्टितनुयष्टिरसौ वराह
लक्ष्मा ददातु विमलः कमलां जिनेशः ॥८१ ॥ श्येनाङ्कसिंहरथभूः कनकस्त्वयोध्या
जन्मा विनीतसुरसंस्तुतपादपनः । व्योमेषुकार्मुकतनुः सुयशातनूजो
दद्यादनन्तसुखमेष जिनस्त्वनन्तः ॥ ८२॥ वज्राङ्क ! रत्नपुरसम्भव ! हेमकान्ति
श्रीभानुभूपकुलदीपक ! सुनसाभूः ।। पश्चाधिकार्मुकतनो ! जितमन्मथेश !
श्रीधर्मनाश! जय नायकलाधिना ! || ८३ ॥