________________
श्रीजैनस्तोत्रमदोहे [श्रीसारहेमद्यतित्रयधनुःशतदेहमाना
ऽयोध्याजनिम्रपतिमेघरथाङ्गजन्मा। चक्राङ्कितः सुवनतः किल मङ्गलाभू
___ _यादयं मवमिदे सुमतिर्जिनेशः ।। ७३ ।। पश्चशतीद्विशतचापतनुं सुसीमा
श्रीमद्धराभिधनृपप्रभवो विभूतिम् । कौशाम्बिभूकृतजनिर्जलजाङ्गलक्ष्मा
पद्मप्रभोऽरुणतनुर्वितनोतु देवः ।। ७४ ॥ वाराणसीकृतजनिः फणपञ्चकाङ्को
हेमद्युतिः शतधनुर्द्वितयप्रमाणः । श्रीमत्प्रतिष्ठपृथिवीतनयो विभूति
मत्स्वस्तिको जिनपतिर्जयतात् सुपार्श्वः ॥ ७५ ॥ व्योमेषुशीतरुचिसङ्घयधनुःप्रमाणः
___ श्रीलक्ष्मणाजठरभूमहसेनपुत्रः । चन्द्राङ्कचन्द्ररुचिचन्द्रपुरीसुजन्मा
चन्द्रप्रभः प्रभवतां भवभीभिदे वः ।। ७६ ॥ कामन्दकीकृसजनिः शतचापतुङ्गो
रामानमूर्धवलरुग् मकराङ्कचिन्हः । देवेन्द्रवन्धचरणः सुविधिविभूति
सुग्रीवभूर्वितरतां मम पुष्पदन्तः ॥ ७७ ॥ श्रीवत्सयुग नवतिचापतनुप्रमाणी
नन्दासुतो दृहरथान्वयमण्डनोऽवम् ।